________________ [ 202 ] सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / तादिनां यानि यावत्कथिकानि यानि चेत्वराणि तदेतदाहइत्थ उ समणोवासगधम्मे अणुव्वयगुणव्वयाइं च / आवकहियाइ सिक्खावयाइं पुण इत्तराई ति।३२८। [अत्र तु श्रमणोपासकधर्मे अनुव्रतानि गुणव्रतानि च / यावत्कथिकानि शिक्षाब्रतानि पुनरित्वराणीति // 328 // ] अत्र पुनः श्रमणोपासकधर्म तुशब्दः पुनःशब्दार्थः स चावधारणे अत्रैव न शाक्याद्युपासकधर्मे तत्र सम्यक्त्वाभावेन अणुव्रतायभावात् उपास्ते इत्युपासकः सेवकः इत्यर्थः श्रमणानामुपासकस्तस्य धर्म इति समासः अणुव्रतानि गुणव्रतानि चेति पश्चाणुव्रतानि प्रतिपादितम्वरूपाणि त्रीणि गुणव्रतानि उक्तलक्षणान्येव यावत्कथिकानीति सकृद्गृहीतानि यावज्जीवमपि भावनीयानि न तु नियोगतो यावज्जीवमेवेति गुग्यो व्याचक्षते प्रतिचातुर्मासकमपि तद्ग्रहणं वृद्धपरंपरायाततया सामाचार्युपलब्धः शिक्षापदव्रतानि पुनरित्वराणि शिक्षा अभ्यासस्तस्याः पदानि स्थानानि तान्येव व्रतानि शिक्षापदव्रतानि इत्वराणीति तत्र प्रतिदिवसानुष्ठेये सामायिकदेशावका शिके पुनः पुनरुच्चार्यते इति भावना पौषधोपवासातिथिसंविभागौ तु प्रतिनियतदिवसानुष्ठेयौ न प्रतिदिवसाचरणीयाविति। श्रावकधर्म च प्रत्याख्यानभेदानां सप्तचत्वारिंशदधिकं भङ्गशतं भवति चित्रत्वाद्देशविरतेः, तदाह