________________ सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / [ 201] [सचित्तनिक्षेपणं वर्जयेत् सचित्तपिधानं चैव / . कालातिक्रमदानं परव्यपदेशं मात्सर्य च // ] विवर्जयेत् तत्र सचित्तनिक्षेपणं सचित्तेषु व्रीह्यादिषु निक्षेपणमन्नादेरदेयबुद्धया मातृस्थानतः / 1 // एवं सचित्तपिधानं सचित्तेन फलादिना पिधानं स्थगनमिति समासः भावार्थः प्राग्वत् / 2 / कालातिक्रम इति कालस्यातिक्रमः कालातिक्रमः उचितो यो भिक्षाकालः साधूनां तमतिक्रम्य उल्लंध्य भुक्ते तदा च किं तेन लब्धेनापि कालातिक्रांतत्वात्तस्य उक्तं च / काले दिन्नस्स पहेणयस्स अग्यो ण तीरए काउं / तस्सेवकाले परिणामियस्स गिण्हंतया नत्थि / / परव्यपदेश इति आत्मव्यतिरिक्तो योऽन्यः स परस्तव्यपदेश इति समास: साधोः पौषधोपवासपारणकाले भिक्षायै समुपस्थितस्य प्रकटमन्नादि पश्यत: श्रावकोऽभिधत्ते परकीयमिदमिति नात्मीयमतो न ददामि किंचिद्याचितो वाभिधत्ते विद्यमान एवामुकस्येदमस्ति तत्र गत्वा मार्गय तद्यूयमिति / 4 / मात्सर्यमित्ति याचितः कुप्यते सदपि न ददाति परोन्नतिवैमनस्यं च मात्सर्यमिति "तेन तावद्रमकेण याचितेन दत्तं, किमहं ततोऽपि न्यूनः" इति मात्सर्यादाति कषायकलुषितेन वा चित्तेन ददतो मात्सर्यमिति / 5 / / उक्तं च सातिचारं चतुर्थ शिक्षापदव्रतं अधुनैषामणुत्र-.