SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ [164] सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / क्षेत्रादेरनन्तरोदितस्य तथा हिरण्यादेर्धनादेर्द्विपदादेः कुप्यस्य तथा आसनशयनादेरुपस्करस्य सम्यक् विशुद्धचित्तोनिर्मायोऽप्रमत्तः सन् न प्रमाणातिक्रमं कुर्यादिति // भाविज्ज य संतोसं गहियमियाणिं अजाणमाणेणं। थोवं पुणो न एवं गिहिस्सामोत्ति चिंतिज्जा 279 [भावयेच्च संतोषं गृहीतमिदानीमजानानेन / स्तोकं पुनः न एवं ग्रहीष्यामीति चिन्तयेत् // 279 // ] भावयेच्च संतोष किमनेन वस्तुना परिगृहीतेन तथा गृहीतमिदानीमजानानेन स्तोकमिच्छापरिमाणमिति पुन वमन्यस्मिश्चतुर्मासके ग्रहीष्याभीति न चिन्तयेदतिचार एष इति गाथार्थ / / उक्तान्यणुव्रतानि सांप्रतमेषामेवाणुव्रतानां परिपालनाय भावनाभूतानि गुणव्रतान्यभिधीयन्ते / तानि पुनस्त्रीणि भवन्ति / तद्यथा। दिग्वतमुपभोगपरिभोगपरिमाणं अनर्थदण्डपरिवर्जनमिति। तत्राद्यगुणवतस्वरूपाभिषित्सयाहउडढमहे तिरियं पि य दिसासु परिमाणकरणमिह पढम। भणियं गुणव्वयं खलु सावगधम्मम्मि वीरेण॥२८०॥ [ऊर्ध्वमस्तिर्यगपि च दिक्षु परिमाणकरणमिह प्रथमम् / भणितं गुणवतं खलु श्रावकधर्मे वीरेण // 280 // ]
SR No.004383
Book TitleShravak Pragnpti
Original Sutra AuthorN/A
AuthorRajendravijay
PublisherSanskar Sahitya Sadan
Publication Year1972
Total Pages246
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy