________________ सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं। [ 165 ] ऊर्ध्वमधस्तियक किं दिक्षु परिमाणमिति / दिशो घनेकप्रकारा वर्णिताः शास्त्रे तत्र सूर्योपलक्षिता पूर्वा शेषाश्च दक्षिणादिकास्तदनुक्रमेण द्रष्टव्याः। तत्रोर्ध्वदिक्परिमाणमूर्ध्वदिग्छतमेतावती दिगूवं पर्वताचारोहणादवगाहनीया न परत इति। एवंभूतमधोदिक्परिमाणं अधोदिग्व्रतं एतावत्यधोदिक् इन्द्रकूपाद्यवतरणादवगाहनीया न परत इति / एवंभूतं तिर्यग्दिक्परिमाणकरणं तिर्यग्दिग्नतं एतावती दिक्पूर्वेणावगाहनीया एतावती दक्षिणेनेत्यादि न परत इत्येवमात्मकं एतदित्थं त्रिधा दिक्षु परिमाणकरणं इह प्रवचने प्रथममायं सूत्रक्रमप्रामाण्यात् गुणाय व्रतं गुणवतं इत्यस्मिन् हि सत्यवगृहीतक्षेत्रा बहिः स्थावरजंगमप्राणिगोचरो दण्ड: परित्यक्तो भवतीति गुणः श्रावकधर्म इति श्रावकधर्मविषयमेव केन भणितमिति आह वीरेण | . विदारयति यत्कर्म तपसाच विराजते / तपोवीर्येण युक्तश्च तस्माद्वीर इति स्मृतः॥ तेन इति चरमतीर्थकृता गुणव्रतमित्युक्तमतो गुणदर्शनायाह, अथवा गुणव्रताकरणे दोषमाह // ततायगोलकप्पो पमत्तजीवोऽनिवारियप्पसरो। मव्वत्थ किं न कुज्जा पावं तकारणाणुगओ॥२८॥ [तप्तायोगोलकल्पः प्रमत्तजीवोऽनिवारितप्रसरः / सर्वत्र किं न कुर्यात् पापं तत्कारणानुगतः // 281 // ]