________________ [ 166 ] सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / तप्तायोगोलकल्पस्तप्तलोहपिण्डसदृशः कोऽसौ प्रमत्तजीवः प्रमादयुक्त आत्मासावनिवारितप्रसरोऽनिवृत्त्या अप्रतिहतप्रमादसामर्थ्यः सन् तथागतेः सर्वत्र क्षेत्रे किं न कुर्यात्कुर्यादेव पापं अपुण्यं तत्कारणानुगतः प्रमादपापकारणानुगत इति // पडिवन्नम्मि यविहिणा इमम्मि तव्वज्जणं गुणो नियमा अइयाररहियपालणभावस्स वि तप्पसइओ // 282 // [प्रतिपन्ने च विधिना अस्मिन् तद्वर्जन गुणो नियमात् / अतिचाररहितपालनभावस्यापि तत्प्रसूतेः // 282 // ) प्रतिपन्ने चाङ्गीकृते च विधिना सूत्रोक्तेन अस्मिन् गुणव्रते तद्वर्जन प्रमादपापवर्जनं गुणो नियमादात्मोपकारोऽवश्यंभावी न चैव मंतव्यं एतदर्थपरिपालनभाव एव ज्यायान् नत्वेतत्प्रतिपत्तिः कथमतिचाररहितपालनभावस्यापि निरतिचारपालनभावस्यापि तत्प्रसूतेर्गुणत्रतादेवोत्पादात्तथाप्रतिपत्तौ हि तथाप्रतिपन्न इति इदमतिचाररहितमनुपालनीयमतोऽस्यैवातिचारानभिधित्सुराह / / उड्ढमहे तिरियं पि न य पमाणाइक्कम सया कुज्जा। तह चेव खित्तबुढिं कहिंचि सइअंतरद्धच // 283 // [ ऊर्ध्वमधस्तियंगपि च न प्रमाणातिक्रमं -सदा कुर्यात् / तथैव क्षेत्रवृद्धि कथंचित् स्मृत्यन्तर्धानं च // 283 // ]