________________ सटीकश्रावकप्रज्ञप्त्याख्य प्रकरणं / [ 163 ] भेएण खित्तवत्थूहिरण्णमाइसु होइ नायव्वं / दुपयाईसु य सम्मं वज्जणमेयस्स पुन्वुत्तं // 276 // [भेदेन क्षेत्रवास्तुहिरण्यादिषु भवति ज्ञातव्यम् / द्विपदादिषु च सम्यक् वर्जनमेतस्य पूर्वोक्तम् / / 276 // ] भेदेन विशेषेण क्षेत्रवास्तुहिरण्यादिषु भवति ज्ञातव्यं, किं इच्छापरिमाणमिति वर्तते, तत्र क्षेत्र सेतु केतु च उभयं च, वास्त्वगारं खातमुच्छ्रितं खातोच्छ्रितं च, हिरण्यं रजतमघटितमादिशब्दाद्धनधान्यादिपरिग्रहः एतदचित्तविषयं द्विपदादिषु चेत्येतत्सचित्तविषयं द्विपदचतुःपदापदादिषु दासीहस्तिवृक्षादिषु सम्यक प्रवचनोक्तेन विधिना वर्जनमेतस्य पञ्चमाणुव्रतविषयस्य पूर्वोक्तं उपयुक्तो गुरुमूले इत्यादिना ग्रन्थेनेति / पडिवज्जिऊण यं वयं तस्सइयारे जहाविहिं नाउं / संपुनपालणट्ठा परिहरियव्वा पयत्तेणं // 277 // पूर्ववत् (257) खित्ताइहिरन्नाईधणाइदुपयाइकुवियगस्स तहा। सम्मं विसुद्धचित्तो न पमाणाइक्कम कुज्जा।।२७८ // [क्षेत्रादेः हिरण्यादेः धनादेः द्विपदादेः कुप्यकस्य तथा। सम्यग्विशुद्धचित्तो न प्रमाणातिक्रमं कुर्यात् // 278 //