________________ [162] सटीकश्रावकप्रज्ञप्त्याख्य प्रकरणं / [वर्जयेत् मोहकरं परयुवतिदर्शनादि सविकारम् / .. एते खलु मदनबाणाः चारित्रप्राणान् विनाशयन्ति 274] वर्जयेन्मोहकरं परयुवतिदर्शनं आदिशब्दात्संभाषणादिपरिग्रहः किंभूतं सविकारं सविभ्रमम् / एते दर्शनादयो यस्मान्मदनबाणाश्चारित्रप्राणान् विनाशयन्तीति / उक्तं च अनिशमशुभसंज्ञाभावनासनिहत्या, कुरुत कुशलपक्षप्राणरक्षां नयज्ञाः। / हृदयमितरथा हि स्त्रीवीलासाभिधाना, मदनशबरबाणश्रेणयः काणयन्ति / / इति उक्तं चतुर्थमणुव्रतमधुना पश्चममाह / सचित्ताचित्तेस इच्छापरिणाममो य पंचमयं / भणियं अणुव्वयं खलु समासओ शंतनाणिहिं / 275 / [सचित्ताचित्तेषु इच्छापरिमाणं च पञ्चमकम् / भणितमणुव्रतं खलु समासतः अनन्तज्ञानिभिः // 275 // ] सचित्ताचित्तेषु द्विपदादिहिरण्यादिषु इन्छायाः परिमागमिच्छापरिमाणं एतावतामूर्ध्वमग्रहणमित्यर्थः / एतत्पश्चममुपन्यासक्रमप्रामाण्याद्भणितमणुव्रतं खलु समासतः सामान्येनानन्तज्ञानिभिस्तीर्थकरैरिति //