________________ सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / [161 ] पूर्ववत् (257), अतीचारानाह / इत्तरियपरिग्गहियापरिगहियागमणणंगकीडं च। परविवाहकरणं कामे तिब्वाभिलासं च // 273 // [इत्वरपरिगृहीतापरिगृहीतागमनानंगक्रीडाश्च / परविवाहकरणं कामे तीवामिलापश्च // 273 // ] इत्वरपरिगृहीतागमनं स्तोककालपरिगृहीतागमनं भाटीप्रदानेन कियन्तमपि कालं स्ववशीकृतवेश्यामैथुनासेवनमित्यर्थः / 1 / अपरिगृहीतागमनं अपरिगृहीता नाम वेश्या अन्यसक्तागृहीतभाटी कुलाङ्गना वा अनाथेति तद्गमनं यथाक्रमं स्वदारसंतोषवत्परदारवर्जिनोरतीचारः / 2 / अनङ्गक्रीडा नाम कुचकशोरुवदनांतरक्रीडा तीव्रकामाभिलाषेण वा परिसमाप्तसुरतस्याप्याहार्यै: स्थूलकादिमिर्योषिदवाच्यप्रदेशासेवननिति / 3 / परविवाहकरणमन्यापत्यस्य कन्याफललिप्सया स्नेहसंबन्धेन वा विवाहकरणं स्वापत्येष्वपि सङ्ख्याभिग्रहो न्याय्य इति / 4 / कामे तीव्राभिलाषश्चेति सूचनात्कामभोगतीव्राभिलाषः कामा शब्दादयः भोगा रसादयः एतेषु तीव्राभिलाषः अत्यन्ततदध्यवसायित्वम् // 5 / एतानि समाचरन्नतिचरति चतुर्थमणुव्रतमिति // वज्जिज्जा मोहकरं परजुवइदंसणाइ सवियारं / एए खु मयणबाणा चरित्तपाणे विणासंति॥२७४॥