________________ [ 170 1 सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / पहरववहरणादि विवक्खाए तमुवभोगो पुणो पुणो य जं तं पुण परिभोगो त्ति अन्ने पुण कम्मपक्खे उवभोगपरिभोगजोयणं ण करिति उवन्नासोय एयस्सुवभोगपरिभोगकारणभावणंति" इति कृतं प्रसङ्गेन / इहेदमपि चातिचाररहितमनुपालनीयमिति तदभिधित्सयाह / अतिचारानपि चैतयोभोजनकर्मणोर्वक्ष्येऽभिधास्ये पृथक प्रत्येकं समासेन संक्षेपेणेति / तत्र भोजनतोऽभिधित्सयाहसचित्ताहारं खलु तप्पडिबद्धं च वज्जए सम्म / अप्पोलियदुप्पोलियतुच्छोसहिभक्खणं चेव // 286 // [सचित्ताहारं खलु तत्प्रतिबद्धं च वर्जयेत् सम्यक् / अपक्वदुःपक्वतुच्छौषधिभक्षणं चैव // 286 // ] सचित्ताहारं खलु सचेतनं मूलकन्दादिकं तत्प्रतिबद्धं च वृक्षस्थगुन्दपक्वफलादिलक्षणं वर्जयेनिहरेत्सम्यक् प्रवचनोक्तेन विधिना तथा अपक्वदुःपक्वतुच्छौषधिभक्षणं च वर्जयेदिति वर्तते तत्रापक्वाः प्रसिद्धाः दुःपक्वास्त्वस्विनाः तुच्छास्त्वसारा मुद्गफलीप्रभृतय इति। उक्ता भोजनातिचाराः सांप्रतं कर्माश्रित्याहइंगालीवणसाडीभाडीफोडीसु वज्जए कम्मं / वाणिज्जं चेव दंतलक्खरसकेसविसविसयं // 287 //