SearchBrowseAboutContactDonate
Page Preview
Page 8
Loading...
Download File
Download File
Page Text
________________ सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं। [3] श्रावकधर्मस्य प्रक्रान्तत्वात्तस्य *श्रावकानुष्ठातृकत्वाच्छावकशब्दार्थ मेव प्रतिपादयतिसंपत्तदंसणाई पइदियहं जइजणा सुणेई य / सामायारि परमं जो खलु तं सावगं विन्ति // 2 // [संप्राप्तदर्शनादिः प्रतिदिवसं यतिजनाच्छृणोत्येव / सामाचारी परमां यः खलु तं श्रावकं ब्रुवते // 2 // ] संप्राप्तं दर्शनादि येनासौ संप्राप्तदर्शनादिः। दर्शनग्रहणात्सम्यग्दृष्टिरादिशब्दादणुव्रतादिपरिग्रहः / अनेन मिथ्यादृष्टेयुदासः। स इत्थंभूतः प्रतिदिवसं प्रत्यहं यतिजनात्साधुलोकात् शृणोत्येव किं सामाचारी परमां / तत्र समाचरणं समाचारः शिष्टाचरितः क्रियाकलापः तस्य भावो गुणवचनब्राह्मणादिभ्यः कर्मणि व्यञ् सामाचार्य पुनः स्त्रीविवक्षायां षिद्गौरादिभ्यश्चेति ङीपू (टाप्') यस्येत्यकारलोपः यस्य हल इत्यनेन तद्वितयकारलोपः परगमनं सामाचारी तां सामाचारी परमां प्रधानां साधुश्रावकसंबद्धामित्यर्थः। यः खलु य एव शृणोति तं श्रावकं ब्रुवते तं श्रावकं प्रतिपादयन्ति भगवन्तस्तीर्थकरगणधराः॥ ततश्चायं पिण्डार्थः / अभ्युपेतसम्यक्त्वः प्रतिपन्नाणुव्रतोऽपि * श्रावकानुगतत्वात् /
SR No.004383
Book TitleShravak Pragnpti
Original Sutra AuthorN/A
AuthorRajendravijay
PublisherSanskar Sahitya Sadan
Publication Year1972
Total Pages246
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy