________________ [ 108] सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / [ तस्मात् नैव निवृत्तिः कार्या अपि चात्मनैव / अद्धोचितमालोच्य अविरुद्धं भवति कर्तव्यम् // 167 // ] यस्मादेवं तस्मान्नैव निवृत्तिः कार्या अपि चात्मनैवाद्धोचितं कालोचितमालोच्य अविरुद्धं भवति कर्तव्यं यद्यस्यामवस्थायां परलोकोपकारीति एषः पूर्वपक्षः / अत्रोत्तरमाहसीहवहरखिओ सो उड्डाहं किंपि कहवि काऊणं / किं अप्पणो परस्स य न होइ अवमारहेउत्ति / 168 / [सिंहवधरक्षितोऽसौ उड्डाहं किमपि कथमपि कृत्वा / किं आत्मनः परस्य च न भवत्यपकारहेतुरिति // 168 // ] एवमपि दोषसंभवे नन्विदमपि संभवति / सिंहवधरक्षितोऽसावाचार्य उड्डाहमुपघातं किमपि योषिदासेवनादिकं कथमपि कलिष्टकर्मोदयात् कृत्वा किमात्मनोबोधिलाभनिवर्तनीयकर्मबंधहेतुत्वेन परस्य च श्रावकादेविपरिणामकरणेन न भवत्यपकारहेतुर्भवत्येवेति // किंइय नतित्थहाणी किंवा वहिओ न गच्छई नरयं / सीहो किंवा सम्मं न पावई जीवमाणो उ।१६९। [किमेवं न तीर्थहानिः किं वा वधितो न गच्छति नरकम् / सिंहः किं वा सम्यक्त्वं न प्रामाति जावन् तु // 169 // ] किमेवं न तीर्थहानिस्तीर्थहानिरेव / किं वा वधितो