________________ [ 196 ] सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / मूले वा घरे वा पोसहसालाए वा उम्मुक्कमणिसुवन्नो यदंतो पोत्थगं वा वायंतो धम्मज्झाणं वा झायइ जहा एए साहुगुणा अहमसत्थो मंदभग्गो धारे विभासा / इदमपि च शिक्षापदव्रतमतिचाररहितमनुपालनीयमिति / अत आहअप्पडिदुप्पडिलेहियसिज्जासंथारयविवज्जिज्जा। अपमज्जियदुपमज्जिय तह उच्चाराइभूमिं च / 323 / [अप्रत्युपेक्षितदुष्प्रत्युपेक्षितशय्यासंस्तारको वर्जयेत् / अप्रमार्जितदुष्प्रमार्जितं तथा उच्चारादिभुवमपि / / 323 // ] अप्रत्युपेक्षितदुःप्रत्युपेक्षितशय्यासंस्तारको वर्जयेत् / इह संस्तीर्यते यः प्रतिपन्नपौषधोपवासेन दर्भकुशकम्बलवस्त्रादिः स संस्तारकः शय्या प्रतीता अप्रत्युपेक्षणं गोचरापन्नस्य शय्यादेः चक्षुषानिरीक्षणं दुष्टमुद्धान्तचेतसः प्रत्युपेक्षणं दुष्प्रत्युपेक्षणं ततश्चाप्रत्युपेक्षितदुष्प्रत्युपेक्षितौ च शय्यासंस्तारको चेति समासः शय्यैव वा संस्तारक इति / एवमन्यत्रापि अक्षरगमनिका कार्येति / उपलक्षणं च शय्यासंस्तारकावुपयोगिनः पीढफलकादेरपि / एत्थं सामायारी कडपोसहो णो अप्पडिलेहिय सेज्जं दुरुहइ संथारगं वा दुरुहइ पोसहसालं वा सेवइ दब्भवत्थं वा. सुद्धवत्थं वा भूमीए संथारेइ काइयभूमीउ वा आगओ पुणरवि पडिलेहइ अनहातियारो एवं पीढफलगादिसु वि विभासा /