________________ [ 198 ] सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / ज्जाणि वावारेइ कयमकयं वा चिंतेइ एवं पंचातियारसुद्धो अणुपालेयव्वोत्ति गाथाद्वयभावार्थः। उक्तं सातिचारं तृतीयं शिक्षापदव्रतमधुना चतुर्थमुच्यतेनायागयाण अन्नाइयाण तह चेव कप्पणिज्जाणं / देसद्धसद्धसक्कारकमजुयं. परमभत्तीए // 325 // [न्यायागतानां अन्नादीनां तथा चैव कल्पनीयानाम् / देशकालश्रद्धासत्कारक्रमयुक्तं परमभक्त्या // 325 // ] न्यायागतानामिति, न्यायो द्विजक्षत्रियविशूद्राणां स्ववृत्त्यनुष्ठानं स्ववृत्तिश्च प्रसिद्धैव प्रायो लोकहेर्या तेनेदृशन्यायेनागतानां प्राप्तानामनेनान्यायागतानां प्रतिषेधमाह / अन्नादीनां द्रव्याणां आदिग्रहणात्पानवखपात्रौषधभेषजादिपरिग्रहः अनेनापि हिरण्यादिव्यवच्छेदमाह / कल्पनीयानामिति उद्गमादिदोषपरिवर्जितानां अनेनाकल्पनीयानां निषेधमाह / देशकालश्रद्धासत्कारक्रमयुक्तं नानाव्रीहिकोद्रवकगुगोधूमादिनिष्पत्तिभाग्देशः, सुभिक्षदुर्भिक्षादिः कालः, विशुद्धचित्तपरिणामः श्रद्धा, अभ्युत्थानासनदानवंदनाद्यनुव्रजनादिः सत्कारः, पाकस्य पेयादिपरिपाट्या प्रदानं क्रमः, एभिर्देशादिभिर्युक्तं समन्वितं, अनेनापि विपक्षव्यवच्छेदमाह / परमया प्रधानया भक्त्या इत्यनेन फलप्राप्तौ भक्तिकृतमतिशयमाहेति //