________________ [ 240 ] सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / भवसंवेदनं युक्तिरुपपत्तिहेतुरन्वयव्यतिरेकलक्षणः एभिर्घटमानकं हंदीत्युपप्रदर्शने एवं गृहाण नानिष्ठितार्थानां सिद्धानामस्ति सुखं विद्यते सातं श्रद्धेयं प्रतिपत्तव्यं तथा जिनचन्द्रागमाच्चाहद्वचनाद्वेति / अधुना आचार्योऽनुद्धतत्वमात्मनो दर्शयन्नाह अथवा प्रकरणविहितार्थ विशिष्टश्रमणपर्यायप्राप्यं सक्रियया सर्वेषामासन्नीकृत्यात्मनोऽपराधस्थानमाशंक्याहजं उद्धियं सुयाओ पुवाचरियकयमहव समईए। खमियब्वं सुयहरेहि तहेव सुयदेवयाए य / 401 // [यदुद्धतं सूत्रात् पूर्वाचार्यकृतं अथवा स्वमत्या / क्षतव्यं श्रुतधरैः तथैव श्रुतदेवतया च // 401 // ] ___ यदुद्धतं सूत्रात्सूत्रकृतादेः कालान्तरप्राप्यं पूर्वाचार्यकृतं का यदुद्धतं अथवा स्वमत्या तत्क्षन्तव्यं श्रुतधरैस्तथैव श्रुतदेवतया च क्षन्तव्यमिति वर्तते / इति दिक्प्रदा नाम श्रावकप्रज्ञप्तिटीका समाप्ता। कृतिरियं सिताम्बराचार्यस्य जिनभट्टपादसत्कस्याचार्यहरिभद्रस्येति / इति सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणम् // 1 All Mss of the original text end thus, " श्री उमास्वातिवाचककृता सावयपन्नत्ती सम्मत्ता" //