________________ [6] सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / शृणोतीति श्रावक इति युक्तं इति गाथाभिप्रायः // निरूपितः श्रावकशब्दार्थः / सांप्रतं द्वादशविधं श्रावकधर्ममुपन्यस्यन्नाह / / पञ्चेव अणुव्वयाइं गुणव्वाइं च हुति तिन्नेव / सिक्खावयाइं चउरो सावगधम्मो दुवालसहा // 6 // [पञ्चैवाणुव्रतानि गुणव्रतानि च भवन्ति त्रीण्येव / शिक्षाव्रतानि चत्वारि श्रावकधर्मों द्वादशधा // 6 // ] पञ्चेति सङ्ख्या / एवकारोऽवधारणे / पञ्चैव न चत्वारि षड् वा / अणूनि च तानि व्रतानि चाणुव्रतानि महाव्रतापेक्षया चाणुत्वमिति स्थूरमाणातिपातादिविनिवृत्तिरूपाणीत्यर्थः / / गुणव्रतानि च भवन्ति त्रीण्येव न न्यूनाधिकानि वा। अणुव्रतानामेवोत्तरगुणभूतानि व्रतानि गुणवतानि दिग्व्रतभोगोपभोगपरिमाणकरणानर्थदण्ड विरतिलक्षणानि एतानि च भवन्ति त्रीण्येव / शिक्षापदानि च शिक्षाव्रतानि वा तत्र शिक्षा अभ्यासः स च चारित्रनिबन्धनविशिष्टक्रियाकलापविषयस्तस्य पदानि स्थानानि तद्विषयाणि वा व्रतानि शिक्षाव्रतानि एतानि च चत्वारि सामायिकदेशावकाशिकपौषधोपवासातिथिसंविभागाख्यानि / एवं श्रावकधर्मों द्वादशधा द्वादशप्रकार इति गाथासमासार्थः। अवयवार्थ तु महता प्रपञ्चेन - ग्रन्थकार एव वक्ष्यति // तथा चाह