________________ सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / [5] [ नापि तत्करोति देहो न च स्वजनो न च वित्तसंघातः। जिनवचनश्रवणजनिता यत्संवेगादयो लोके // 4 // ] नापि तत्करोति देहो न च स्वजनो न च वित्तसंघातः जिनवचनश्रवणजनिता यत्संवेगादयो लोके कुर्वन्ति / तथा ह्यशाश्वतः प्रतिक्षणभङ्गुरो देहः शोकायासकारणं क्षणिकसंगमश्च स्वजनः अनिष्टितायासव्यवसोयास्पदंश च वित्तसंघात इत्यसारता / तीर्थकरभाषिताकर्णनोद्भवाश्च संवेगादयो जातिजरामरणरोगशोकायुपद्रवत्रातरहितापवर्गहेतव इति सारता / अतः श्रोतव्यं जिनवचनमिति // अथवाहोइ दढं अणुराओं जिणवयणे परमनिव्वुइकरम्मि। सवणाइगोयरो तह सम्मदिट्ठिस्स जीवस्स // 5 // [ भवति दृढमनुरागो जिनवचने परमनिवृतिकरे / श्रवणादिगोचरः तथा सम्यग्दृष्टेर्जीवस्य // 5 // ] यद्वा किमनेन निसर्गत एव भवति जायते दृढमत्यर्थमनुरागः प्रीतिविशेषः क्व जिनवचने तीर्थकरभाषिते किविशिष्टे परमनिर्वृतिकरे उत्कृष्टसमाधिकरणशीले किंगोचरोऽनुरागो भवतीत्यत्राह / श्रवणादिगोचरः श्रवणश्रद्धानानुष्ठानविषय इत्यर्थः / तथा तेन प्रकारेण कस्येत्येत्राह सम्यग्दृष्टेर्जीवस्य प्रक्रान्तत्वाच्छावकस्येत्यर्थः / अतोऽसौ श्रवणे प्रवर्तत एव ततश्च * अनिष्टितासयवसायास्पदं /