________________ सटीकश्रावकज्ञप्त्याख्यप्रकरणं। [233 ] कुसुमेहि वासियाणं तिलाण तिल्ल पि जायइ सुयंधं। एतोवमा हु बोही पन्नत्ता वीयरागेहिं // 387 // [कुसुमैः वासितानां तिलानां तैलमपि जायते सुगन्धि / एतदुपमैव बोधिः प्रज्ञप्ता वीतरागैः // 387 // ] - कुसुमैर्मालतीकुसुमादिभिर्वासितानां भावितानां तिलानां तैलमपि जायते सुगन्धि तद्गन्धवदित्यर्थः एतदुपमैव बोधिरिति अनेनोक्तप्रकारेणोपमा यस्याः सा तथा प्रज्ञप्ता वीतरागैरर्हद्भिरिति / कुसुमसमा अभासा जिणधम्मस्सेह हुति नायव्वा। तिलतुल्ला पुण जीवा तिल्लसमो पिच तब्भावो॥ [ कुसुमसमा अभ्यासा जिनधर्मस्य इह भवन्ति ज्ञातव्याः / तिलतुल्याः पुनर्जीवाः तैलसमा प्रेत्य तद्भावः // 388 // ] कुसुमसमाः कुसुमतुल्या अभ्यासा जिनधर्मस्य क्षान्त्यादेरिह जन्मनि भवन्ति ज्ञातव्याः तिलतुल्याः पुनर्जीवा भाव्यमानत्वात् तैलसमः प्रेत्य तद्भावो जन्मान्तरे बोधिभाव इति। बोधिफलमाहइय अप्परिवडियगुणाणुभावओ बंधहासभावाओ। पुब्विल्लस्स य खयओ सासयसुक्खो धुवो मुक्खो॥