________________ [ 174 ] सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / प्रयोजनं प्रमादापरिमितत्वात् तथा चाह, अर्थे प्रयोजने कालादयो नियामकाः कालाद्यपेक्षं हि कृष्याद्यपि भवति न त्वनर्थाय प्रयोजनमन्तरेणापि प्रवृत्तौ सदा प्रवृत्तेरिति / इदमपि चा तिचाररहितमेवानुपालनीयमिति, अतः तानाहकंदप्पं कुक्कुइयं मोहरियं संजुयाहिगरणं च / उवभोगपरीभोगाइरेयगयं चित्थ वज्जइ / 291 // [कंदर्प कौत्कुच्यं मौवयं संयुक्ताधिकरणं च / उपभोगपरिभोगातिरेकतां चैव वर्जयेत् // 291 // ] इति पदघटना // पदार्थस्तु कंदर्पः कामस्तद्वतुर्विशिष्टो वाक्प्रयोगोऽपिकंदर्प उच्यते रागोद्रेकात्प्रहासमिश्री मोहोद्दीपको नर्मेति भावः / इह च सामाचारी। सावगस्स अट्टहासो न वट्टइ जइ नाम हसियव्वं तउ इसिं चेव हसियव्वं ति // 1 // कौत्कुच्यं कुत्सितसंकोचनादिक्रियायुक्तः कुत्कुचः तस्य भावः कौत्कुच्यं अनेकप्रकारमुखनयनौष्ठकरचरणभूविकारपूर्विका परिहासादिनिका भांडादीनामिव विडंबनक्रियेत्यर्थः। एत्थ सामायारी " तारिसगाणि भासिउं न कप्पंति जारिसेहि लोगस्स हासो उप्पज्जइ एवं गतीए ठाणेण वा ठाइउं ति" // 2 // मौखयं धात्प्रिायोऽसत्यासंबद्धप्रलापित्वमुच्यते "मुहेण वा अरिमाणेइ जहा कुमारामचेणं सो वारहडो विसज्जिओ रनो णिवेदियं ताए जीवियाए वित्ती दिन्ना अन्नदा रुद्वेग