________________ सटीकाधकप्रज्ञप्त्याख्यप्रकरणं / [173 ] [विरतिरनर्थदण्डे तृतीयं स चतुर्विधः अपध्यानः / - प्रमादाचरितः हिंसाप्रदानः पापोपदेशश्च / / 289 / / ] विरतिनिवृत्तिरनर्थदण्डे अनर्थदण्डविषया इह लोकमप्यङ्गीकृत्य निःप्रयोजनभृतोपमर्दनिग्रहविषया तृतीयं गुणव्रतमिति गम्यते स चतुर्विधः सोऽनर्थदण्ड: चतुःप्रकारः / अपध्यान इति अपध्यानाचरितोऽप्रशस्तध्यानेनासेवितः अत्र देवदत्तश्रावककोङ्कणार्य कसाधुप्रभृतयो ज्ञापकम् / प्रमादाचरितो मद्यादिप्रमादेनासेवितः अनर्थदण्डत्वं चास्योक्तशब्दार्थद्वारेण स्वबुद्धया भावनीयम् / हिंसाप्रदानम् इह हिंसाहेतुत्वादायुधानलविषादयो हिंसोच्यते कारणे कार्योपचारात् तेषां प्रदानं अन्यस्मै क्रोधाभिभूतायाननिभूताय वेति / पापोपदेशश्चेति सूचनात्सूत्रमिति न्यायात्पापकर्मोपदेशः पायं यत्कर्म कृष्यादि तदुपदेशो यथा कृष्यादि कुर्वित्यादि / अनर्थदण्डस्यैव बहुबन्धहेतुतां ख्यापयन्नाहअटेण तं न बंधड़ जमणटेणं तु थेवबहुभावा। अढे कालाईया नियामगा न उ अणट्टाए / 290 [ अर्थेन तत् न बध्नाति यदनथेन स्तोकबहुभावात् / अर्थे कालादयो नियामकाः न त्वनर्थे // 290 // ] . अर्थन कुटुंबादिनिमित्तेन प्रवर्तमानस्तन्न बंधनाति तत्कर्म नादत्ते (अं. 1500) यदनर्थेन यद्विनाप्रयोजनेन प्रवर्तमानः कुतः स्तोकबहुभावात् स्तोकभावेन स्तोकं प्रयोजनं परिमितत्वात् बह्व