________________ सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं। [ 193 ] [वर्जयेत् आनयनप्रयोगं प्रेष्यप्रयोगं चैव। ' शब्दानुपातं रूपानुपातं तथा बहिःपुद्गलक्षेपम् // 320 // ] प्रतिपन्नदेशावकाशिकः सन् वर्जयेत् किं आनयनप्रयोगं प्रेष्यप्रयोगं चैव शब्दानुपातं रूपानुपातं च तथा बहिर्वा पुद्गलक्षेपं वर्जयेदिति पदघटना / भावार्थस्तु इह विशिष्टावधिके भृदेशाभिग्रहे परतः स्वयं गमनायोगाद्योऽन्यः सचित्तादिद्रव्यानयने प्रयुज्यते, संदेशकप्रदानादिना " त्वयेदमानेयम्" इति अयमानयनप्रयोगः // तथा प्रेष्यप्रयोगः बलाद्विनियोज्यः प्रेष्यस्तस्य प्रयोगो, यथाभिगृहीतप्रविचारदेशव्यतिक्रमभयात् “त्वयावश्यमेव गत्वा मम गवाद्यानेयमिदं वा तत्र कर्तव्यमेव" एवंभूतः / 2 / तथा शब्दानुपातः स्वगृहवृत्तिप्राकारादिव्यवच्छिन्नभूप्रदेशाभिग्रहे बहिः प्रयोजनोत्पत्ती, तत्र स्वयंगमनायोगाद्वत्तिप्राकारप्रत्यासन्नवर्तिनी बुद्धिपूर्वकमभ्युक्तासितादिकशब्दकरणेन समवसितकान्बोधयतः शब्दानुपातनमुच्चारणं ताडग्येन परकीयश्रवणविवरमनुपतत्यसाविति / 3 / तथा रूपानुपातो गृहीतदेशाबहिः प्रयोजनभावे शब्दमनुच्चारयत एव परेषां समीपानयनार्थ स्वशरीररूपप्रदर्शनं रूपानुपातः / 4 / तथा बहिः पुद्गलक्षेपोऽभिगृहीतदेशाबहिः प्रयोजनभावे परेषां प्रबोधनाय लेष्ट्रवादिक्षेप: पुद्गलप्रक्षेप इति भावना / 5 / देशावकाशिकमेतदर्थममिगृह्यते मा भूबहिर्गमनागमनादिव्यापारजनित: प्राण्युपमर्द