________________ [ 194 1 सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / इति स च स्वयं कृतोऽन्येन वा कारित: इति न कश्चित्कले विशेषः प्रत्युत गुणः स्वयं गमन ईर्यापथविशुद्धेः परस्य पुनरनिपुणत्वात्तदशुद्धिरिति / व्याख्यातं सातिचारं द्वितीय शिक्षापदमधुना तृतीयमुच्यतेआहारपोसहो खलु सरीरसक्कारपोसहो चेव / बंभव्वावारेसु य तइयं सिक्खावयं नाम // 321 // [ आहारपौषधः खलु शरीरसत्कारपौषधश्चैव / ब्रह्माव्यापारयोश्च तृतीयं शिक्षापदं नाम // 321 // आहारपौषधः खलु शरीरसत्कारपौषधश्चैव ब्रह्माव्यापारयोवेति ब्रह्मचर्यपौषधोऽव्यापारपौषधश्चेति / इह पौषधशब्दः रूढ्या पर्वसु वर्तते / पर्वाणि चाष्टम्यादितिथयः पूरणात्पर्व धर्मोपचयहेतुत्वादिति / तत्राहारः प्रतीतः तद्विषयस्तन्निमित्तो वा पौषधः आहारपौषधः आहारादिनिवृत्तिनिमित्तं धर्मपूरणं पर्वेति भावना / एवं शरीरसत्कारपौषधः / ब्रह्मचर्यपौषधः अत्र चरणीयं चर्य अतो यदित्यस्मादधिकारात् गदमदचरयमचानुपसर्ग इति यत् ब्रह्म कुशलानुष्ठानं यथोक्तं / ब्रह्म वेदो ब्रह्म तपो ब्रह्म ज्ञानं च शाश्वतं / ब्रह्मवत् चर्य चेति समास शेषः पूर्ववत् / तथाव्यापारपौषधः तृतीयं शिक्षावतं नामेति सूच. नात्सूत्रमिति न्यायात्तृतीयं शिक्षापदव्रतमिति एतदेव विशेषेणाह