________________ [28] सटीकश्रावकप्राप्त्याख्यप्रकरणं / प्रकारेण सर्वे असंयता एवं बध्नन्तीत्येवंलक्षणेन / किमित्यत्रोपपत्तिमाह / पुद्गलानामभावाद् बध्यमानानां कर्मपुद्गलानामसंभवात् / तेषामेवाभावे उपपत्तिमाह / इति वृद्धिग्रहणतः एवमनन्तगुणरूपतया वृद्धिग्रहणेन ते कर्मपुद्गलाः सर्वे जीवयुज्यन्ते कालान्तरेण सर्वे जीवैः संबध्यन्ते प्रभूततरग्रहणादल्प. तरमोक्षाच्च / सहस्रमिव प्रतिदिवसं पश्चरूपकग्रहणे एकरूपकमोक्षे च दिवसत्रयान्तः पुरुषशतेनेति / आह चोदकःमोक्खोऽसंखिज्जाओ कालाओते अजं जिएहितो। भणिया गंतगुणा खलु न एस दोसो तओ जुत्तो॥ [ मोक्षोऽसङ्ख्येयाकालात् ते च अतो जीवेभ्यः / भणिता अनन्तगुणाः खलु नैष दोषः ततो युक्तः // 40 // ] मोक्षः परित्यागः असङ्ख्येयाकालादसङ्घयेयेन कालेन उत्कृष्टतस्तेषां कर्मपुद्गलानां / तत ऊवं कर्मस्थितेः प्रतिषिद्धत्वात् / ते च कर्माणवः यतो यस्माज्जीवेभ्यः सर्वेभ्य एव भणिताः प्रतिपादिता अनन्तगुणाः खलुशब्दस्यावधारणार्थत्वादनन्तगुणा एव / नैष दोषोऽनन्तरोदितो बन्धाभावप्राप्तिकाललक्षणः ततो युक्तो बहुतरबन्धः प्रभूततरग्रहणेऽल्पतरमोक्षे च सत्यपि तेषामनन्तत्वात् स्तोककालाच्च मोक्षादिति / न हि शीर्षप्रहेलिकान्तस्य राशेः प्रतिदिवसं पञ्चरूपकग्रहणे एकरूपकमोक्षे च सति वर्षशतेनापि पुरुषशतेन यागो भवति प्रभूतत्वात् /