SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / [29] एवं दार्टान्तिके भावनीयमिति / इत्थं चोदकेनोक्ते सति गुरुराहगहणमणंताण न कि जायइ समएणता कहमदोसो। आगम-संसाराओ न तहाणंताण गहणं तु // 41 // [ ग्रहणमनन्तानां न किं जायते समयेन तत्कथमदोषः / आगमसंसारान्न तथानन्तानां ग्रहणं तु // 41 // ] ग्रहणं कर्मपुद्गलानामादानमनन्तानामत्यन्तप्रभूतानां न किमिति गाथाभङ्गभयाद्वयत्ययः किं न जायते समयेन, जायत एवेत्यर्थः, समयः परमनिकृष्टः काल उच्यते / यतचैव तत्कथमदोषो दोष एव शीर्षग्रहेलिकान्तस्यापि राशेः प्रतिदिवसं शतभागमात्रमहाराशिहाणेऽल्पतरमोक्षे च वर्षशतादारत एव पुरुषशतेन योगोपपत्तेः, एवं दार्टान्तिकेऽपि भावना कार्या / स्यादेतदागमसंसारान्न तथानन्तानां ग्रहणं तु / आगमस्तावत् “जाव णं अयं जीवे एयइ वेयइ चलइ फंदइ ता वणं अट्टविहबन्ध एवा सत्तविहबंध एवा छविहबंध एवा एगविहबंध एवा" इत्यादि संसारस्तु प्रतिसमयबन्धकसचसंसृतिरूपःx प्रतीत एव / एवमागमात्संसाराच न तथानन्तानां ग्रहणमेव भवति यथावध्यमानकर्मपुद्लाभावाद्वन्धाभाव एवेति / एवं पराभिप्रायमाशङ्कयाहx प्रतिसमयबन्धकर्मत्वसंमृतिरूपः
SR No.004383
Book TitleShravak Pragnpti
Original Sutra AuthorN/A
AuthorRajendravijay
PublisherSanskar Sahitya Sadan
Publication Year1972
Total Pages246
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy