________________ सटीकश्रीरकप्रज्ञप्त्याख्यप्रकरणं / [19] अस्थि चिय अभिसंधी अविसेतपवित्तिओ जहा तेसु। अपवित्ती य विणिवित्तीजो उतेसिं व दोसो उ।२५१ [ अस्त्येवाभिसंधिरविशेषप्रवृत्तितः यथा तेषु / अप्रवृत्तावपि अनिवृत्तिज एव तेषां दोष एव // 251 // ] अस्त्येवाभिसंधिरनन्तरोदितलक्षणः सर्वेषु कुतोऽविशेषप्रवृत्तितः सामान्येन वधप्रवृत्तेः यथा तेषु रिपुद्रंगनिवासिषु वैरवतः ततश्चाप्रवृत्तावपि वधे अनिवृत्तिज एव तेषामिव वैरवतां दोषः एवमनिवृत्तस्य गर्भार्थों भावित एवेति अदृष्टान्त एवायं सर्वसत्वैर्वैरासंभवादिति आशङ्कयाहसव्वेसि विराहणओ परिभोगाओ य हंत वेराई / सिद्धा अगाइनिहगो जं संसारो विचित्तो य।२५२। [ सर्वेषां विराधनात् परिभोगाच्च हन्त वैरादयः / सिद्धाः अनादिनिधनो यत् संसारो विचित्रश्च // 252 // ] [ सर्वेषां प्राणिनां विराधनात्तेन तेन प्रकारेण परिभोगाच स्रक्चन्दनोपकरणत्वेन हन्त वैरादयः सिद्धाः हंत संप्रेषणे स्थानान्तरप्रापणे सति वैरोन्माथकादयः कूटयन्त्रकादयः प्रतिष्ठिताः सर्वसत्वविषया इति / उपपत्त्यन्तरमाह / अनादिनिधनो यसंसारो विचित्रश्चातो युज्यते सर्वमेतदिति उपसंहरनाह /