Book Title: Paniniya Ashtadhyayi Pravachanam Part 05
Author(s): Sudarshanacharya
Publisher: Bramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
View full book text
________________
१२२
पाणिनीय-अष्टाध्यायी-प्रवचनम्
प्रकृतिभावः
(४४) अव्यादवद्यादवक्रमुरव्रतायमवन्त्ववस्युषु च । ११५ । प०वि०- अव्यात्-अवद्यात्-अवक्रमुः-अव्रत-अयम्-अवन्तुअवस्युषु ७ । ३ च अव्ययपदम् ।
स०-अव्याच्च अवद्याच्च अवक्रमुश्च अव्रतश्च अयं च, अवन्तुश्च अवस्युश्च ते अव्यात्० अवस्यवः, तेषु - अव्यात्० अवस्युषु (इतरेतरयोगद्वन्द्वः) । अनु० - संहितायाम्, एङ, अति, प्रकृत्या, अन्त: पादम् इति चानुवर्तते ।
अन्वयः -संहितायाम् एङ् प्रकृत्या अव्यादवद्यादवक्रमुरव्रतायमवन्त्ववस्युषु चाति, अन्त: पादम् ।
अर्थः-संहितायां विषये एङ् प्रकृत्या भवति, अवद्यावद्यादवक्रमुरव्रतायमवन्त्ववस्युष्वति परतः, अन्तःपादं चेत् तद् भवति ।
उदा०- ( अव्यात्) अग्निः प्रथमो वसुभिर्नो अव्यात् ( तै०सं० २ । १ । ११ । २ ) | ( अवद्यात्) मित्रमहो अवद्यात् (ऋ० ४।४।१५) । (अवक्रमुः ) मा शिवासो अवक्रमुः (ऋ० ७ । ३२ । २७) । (अव्रतः ) ते नो अव्रता: । (अयम्) शातवारो अयं मणि: (शौ०सं० १९ । ३६ ।५ ) | ( अवन्तु) ते नो अवन्तु पितरः (ऋ० १० | १५ | १) । (अवस्युः) कुशिकासो अवस्यवः (ऋ० ३ । ४२ ।९ ) ।
आर्यभाषाः अर्थ- (संहितायाम् ) सन्धि - विषय में (एङ्) एङ् वर्ण (प्रकृत्या) प्रकृतिभाव से रहता है (अव्यात्० अवस्युषु) अव्यात्, अवद्यात्, अवक्रमुः, अव्रत, अयम्, अवन्तु, अवस्यु शब्द विषयक (अति) अ-वर्ण परे होने पर, (अन्त: पादम् ) यदि वह एङ् ऋचा के पाद= चरण के मध्य में हो ।
उदा०-उदाहरण संस्कृत-भाग में देख लेवें ।
सिद्धि-नो अव्यात्। यहां 'नो' शब्द का एङ् वर्ण (ओ) अव्यात् शब्द के अ-वर्ण परे होने पर इस सूत्र से प्रकृतिभाव से रहता है । प्रकृत्याऽन्तः पादमव्यपरे (६।१।११४) से वकार-यकारपरक अ-वर्ण परे होने पर प्रकृतिभाव का प्रतिषेध किया गया है। यहां 'अव्यात्' आदि में वकार - यकारपरक अ-वर्ण परे होने पर भी एड् को प्रकृतिभाव होता है।