Book Title: Paniniya Ashtadhyayi Pravachanam Part 05
Author(s): Sudarshanacharya
Publisher: Bramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
View full book text
________________
१७२
पाणिनीय-अष्टाध्यायी-प्रवचनम्
अर्थ:-दीर्घाद् अष्टन्-शब्दाद् उत्तराऽसर्वनामस्थानविभक्तिरन्तोदात्ता
भवति ।
उदा० - अष्टाभिः, अष्टाभ्यः, अष्टासु ।
आर्यभाषाः अर्थ- (दीर्घात्) दीर्घ (अष्टन) अष्टन् शब्द से उत्तर (असर्वनामस्थानम् ) सर्वनामस्थान से भिन्न (विभक्ति:) विभक्ति ( अन्त उदात्त:) अन्तोदात्त होती है।
उदा० - अ॒ष्टाभिः । आठों के द्वारा । अष्टाभ्यः । आठों के लिये/से । अष्टासु । आठों में/ पर ।
सिद्धि - अष्टाभिः । अष्टन्+भिस् । अष्ट आ+भिस् । अष्टाभिस् । अष्टाभिः ।
यहां 'अष्टन्' शब्द से असर्वनामस्थान भिस्' प्रत्यय है। 'अष्टन आ विभक्तौ (७/२/८४) से आकार आदेश होता है। दीर्घ 'अष्टा' शब्द से उत्तर असर्वनामस्थान विभक्ति इस सूत्र से अन्तोदात्त होती है। घृतादीनां च' (फिट्० १।२१) से 'अष्टन्' शब्द अन्तोदात्त है । 'झल्युपोत्तमम्' (६ । १ । १८०) से उपोत्तम (अन्तिम से पूर्ववर्ती) वर्ण उदात्त प्राप्त था, यह सूत्र उसका अपवाद है।
अन्तोदात्ता
(१६) शतुरनुमो नद्यजादी । १७० ।
प०वि० - शतुः ५ ।१ अनुमः ५ ।१ नदी - अजादी १।२ । स०-न विद्यते नुम् यस्मिन् सः - अनुम्, तस्मात् - अनुम: ( बहुव्रीहि: ) । अच् आदिर्यस्याः सा-अजादि:, नदी च अजादिश्च ते - नद्यजादी (इतरेतर - योगद्वन्द्वः) ।
अनु०-अन्त:, उदात्त:, विभक्ति:, असर्वनामस्थानम् इति चानुवर्तते । 'अन्तोदात्ताद्' (१ ।१ । ६५ ) इति चानुवर्तनीयम् ।
अन्वयः - अन्तोदात्ताद् अनुमः शतुर्नदी, असर्वनामस्थानम् अजादिर्विभक्तिरन्तोदात्ता ।
अर्थ:-अन्तोदात्ताद् नुम्-रहितात् शतृप्रत्ययान्ताद् उत्तरो नदीसंज्ञकप्रत्ययोऽसर्वनामस्थानम् अजादिर्विभक्तिश्चान्तोदात्ता भवति ।
उदा०- (नदी) तुद्ती, नुद्ती, लुनती, पुनती । (अजादिविभक्तिः ) तुद्ता, नुद्ता, लुनता, पुनता ।