Book Title: Paniniya Ashtadhyayi Pravachanam Part 05
Author(s): Sudarshanacharya
Publisher: Bramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
View full book text
________________
३७०
पाणिनीय-अष्टाध्यायी- प्रवचनम्
अन्तोदात्तम्
(१३) नञो गुणप्रतिषेधे सम्पाद्यर्हहितालमर्थास्तद्धिताः । १५५ । प०वि० - नञः ५ ।१ गुण-प्रतिषेधे ७ ११ सम्पादि - अर्ह -हितअलमर्था: १ । ३ तद्धिता: १ । ३ ।
स०-गुणस्य प्रतिषेध इति गुणप्रतिषेध:, तस्मिन् गुणप्रतिषेधे (षष्ठीतत्पुरुषः) । सम्पादी च अर्हं च हितं च अलं च ते सम्पाद्यर्हहितालमः । सम्पाद्यर्हहितालमोऽर्था येषां ते सम्पाद्यर्हहितालमर्या: (इतरेतरयोगद्वन्द्वगर्भितबहुव्रीहि: ) ।
अनु०-उदात्त:, उत्तरपदम्, तत्पुरुषे, अन्त इति चानुवर्तते । अन्वयः - तत्पुरुषे गुणप्रतिषेधे नञः सम्पाद्यर्हहितालमर्थास्तद्धिता उत्तरपदम् अन्त उदात्तः ।
अर्थः- तत्पुरुषे समासे गुणप्रतिषेधेऽर्थे वर्तमानाद् नञः पराणि सम्पाद्यर्हहितालमर्थकानि तद्धितप्रत्ययान्तानि उत्तरपदानि अन्तोदात्तानि भवन्ति ।
उदा०-(सम्पादि) कर्णवेष्टकाभ्यां सम्पादि मुखम् - कार्णवष्टिकम्, न कार्णवष्टिकमिति अकार्णवष्टिकम् । (अर्हम् ) छेदमर्हति - छैदिकः, न छैदिक इति अच्छेदिकः । (हितम् ) वत्सेभ्यो हित: - वत्सीयः, न वत्सीय इति अवत्सीय: । (अलम् ) सन्तापाय प्रभवति - सान्तापिक:, न सान्तापिक इति असान्तापिकः ।
आर्यभाषाः अर्थ- (तत्पुरुषे ) तत्पुरुष समास में (गुणप्रतिषेधे) गुण के निषेध अर्थ में विद्यमान ( नञः ) नञ्-शब्द से परे (सम्पाद्यर्हहितालमर्था:) सम्पादी, अर्ह, हित और अलम् - अर्थक (तद्धिता) तद्धित-प्रत्ययान्त (उत्तरपदम् ) उत्तरपद (अन्त उदात्त:) अन्तोदत्त होते हैं। उदा०- (सम्पादी) अकार्णवेष्टकम्। कानों की दो बाळियों से असम्पन्न = अ = अनलंकृत
।
मुख। (अर्ह) अच्छेदिकः । जो छेदन नहीं कर सकता है वह पुरुष (हित) अवत्सीयः । जो बछड़ों के लिये हितकारी नहीं है वह पुरुष । (अल) असान्तापिकः । जो तप करने के लिये तैयार नहीं होता है वह पुरुष ।
सिद्धि - (१) अकार्णवष्टिकम्। यहां प्रथम कर्णवष्ट शब्द से 'सम्पादिनिं' (4181९८) से सम्पादी अर्थ में यथाविहित तद्धित 'ठञ्' प्रत्यय है। तत्पश्चात् 'कार्णवष्टिक' शब्द से !