________________
૨૪
धर्मसंग्रह भाग-3 / द्वितीय अधिकार | Pels-32-33-3४ तथा 'बहुबीजेति' बहुबीजं च अज्ञातफलं चेति द्वन्द्वः, तत्र बहूनि बीजानि वर्तन्ते यस्मिन् तत् बहुबीजं, पम्पोटकादिकमभ्यन्तरे पुटादिरहितकेवलबीजमयं, तच्च प्रतिबीजं जीवोपमईसम्भवाद्वर्जनीयं, यच्चाभ्यन्तरपुटादिसहितबीजमयं दाडिमटिण्डुरादि तन्नाभक्ष(क्ष्य)तया व्यवहरन्ति १५ । अज्ञातं च तत्फलं चेति कर्मधारयः, अज्ञातफलं स्वयं परेण वा यद् न ज्ञातं फलमुपलक्षणत्वात्पत्रं तदभक्ष्यं, निषिद्धफले विषफले वा अज्ञानात्प्रवृत्तिसम्भवात्, अज्ञानतो हि प्रतिषिद्धे फले प्रवर्तमानस्य व्रतभङ्गः, विषमयफले तु जीवितविनाशः १६ । तथा सन्धानं चानन्तकायिकं चेति द्वन्द्वः, अत्र सन्धानं निम्बुकबिल्वकादीनाम् अनेकसंसक्तिनिमित्तत्वाद्वयँ, सन्धानस्य च व्यवहारवृत्त्या दिनत्रयात् परतोऽभक्ष्यत्वमाचक्षते, योगशास्त्रवृत्तावपि- “सन्धानमाम्रफलादीनां यदि संसक्तं भवेत्तदा जिनधर्मपरायणः कृपालुत्वात्त्यजेदिति" [३/७२, प. ४६७] १७ ।
अनन्ताः कायिका जीवा यत्र तत् अनन्तकायिकम् अनन्तजन्तुसन्ताननिपातननिमित्तत्वात् वर्ण्यम्,
यतः
"नृभ्यो नैरयिकाः सुराश्च निखिलाः पञ्चाक्षतिर्यग्गणो, द्वयक्षाद्या ज्वलनो यथोत्तरममी सङ्ख्यातिगा भाषिताः । तेभ्यो भूजलवायवः समधिकाः प्रोक्ता यथानुक्रम, सर्वेभ्यः शिवगा अनन्तगुणितास्तेभ्योऽप्यनन्तांशगाः ।।१।।" तानि आर्यदेशप्रसिद्धानि द्वात्रिंशत्तदाहुः"सव्वा य कंदजाई १ सूरणकंदो अ वज्जकंदो २ अ । अल्लहलिद्दा य ३ तहा, अल्लं ४ तह अल्लकच्चूरो ५ ।।१।। सत्तावरी ६ विराली ७, कुँआरि ८ तह थोहरी ९ गलोई अ १० । लसुणं ११ वंसकरिल्ला १२, गज्जर १३ लूणो अ १४ तह लोढा १५ ।।२।। गिरिकण्णि १६ किसलिपत्ता १७, खरिंसुआ १८ थेग १९ अल्लमुत्था य २० । तह लूणरुक्खछल्ली २१, खिल्लहडो २२ अमयवल्ली अ २३ ।।३।।। मूला २४ तह भूमिरुहा २५, विरुआ २६ तह ढक्कवत्थुलो पढमो २७ । सूअरवल्लो अ २८ तहा, पल्लंको २९ कोमलंबिलिआ ३० ।।४।। आलू ३१ तह पिंडालू ३२, हवंति एए अणंतनामेणं ।
अन्नमणंतं नेअं, लक्खणजुत्तीइ समयाओ ।।५।।" [सम्बोधप्र. श्रा. ९०-४, प्रवचनसारोद्धारे २३६४०]