Book Title: Dharm Sangraha Part 03
Author(s): Pravin K Mota
Publisher: Gitarth Ganga

View full book text
Previous | Next

Page 329
________________ ३१० टीडा : न केवलं सप्तक्षेत्र्यां धनवापः पूर्वोक्तशेषो विशेषतो गृहस्थधर्मः, किन्त्वन्योऽपीति तमाह'दीनानुकम्पन 'मिति, दीनेषु - निः स्वाऽन्धबधिरपङ्गुरोगार्त्तप्रभृतिषु अनुकम्पनम् - अनुकम्पाकरणम्, केवलया कृपया धनवापः नतु भक्त्येतिभावः, भक्तिपूर्वकं हि सप्तक्षेत्र्यां यथोचितं दानम्, दीनेषु तु अविचारितपात्रापात्रमविमृष्टकल्प्याकल्प्यप्रकारं केवलयैव करुणया स्वधनस्य वपनं न्याय्यम्, भगवन्तो हि निष्क्रमणकालेऽनपेक्षितपात्रापात्रविभागं करुणया सांवत्सरिकदानं दत्तवन्त इति, एवंविधगुणयुक्तश्च महाश्रावक उच्यते । यतो योगशास्त्रे . - धर्मसंग्रह भाग - 3 / द्वितीय अधिकार / श्लोड-प "एवं व्रतस्थितो भक्त्या, सप्तक्षेत्र्यां धनं वपन् । दयया चातिदीनेषु, महाश्रावक उच्यते ।।१।। " [३ / ११९] महत्पदविशेषणं च अन्येभ्योऽतिशायित्वात्, यतः - श्रावकत्वमविरतानामेकाद्यणुव्रतधारिणां च शृणोतीति व्युत्पत्त्योच्यते, यदाह “संपत्तदंसणाई, पइदिअहं जइजणा सुई अ । सामायारिं परमं, जो खलु तं सावगं बिंति । । १ । । [ सम्बोधप्रकरणे ५ / १, श्रावकप्रज्ञप्तौ २] श्रद्धालुतां श्राति पदार्थचिन्तनाद्धनानि पात्रेषु वपत्यनारतम् । किरत्यपुण्यानि सुसाधुसेवनादद्यापि तं श्रावकमाहुरञ्जसा ।।२।। " इतिनिरुक्ताच्च श्रावकत्वं सामान्यस्यापि प्रसिद्धम्, विवक्षितस्तु निरतिचारसकलव्रतधारी सप्तक्षेत्र्यां धनवपनाद्दर्शनप्रभावकतां परमां दधानो दीनेषु चात्यन्तकृपापरो महाश्रावक उच्यते इत्यलं प्रसंगेन ।। ५९ ।। ।। इति प्रथमः खण्डः ।। - टीडार्थ :न केवलं. प्रसंगेन । श्रावडे डेवल सातक्षेत्रमां घननुं वचन श् ो पूर्वमां हेल शेष विशेषथी ગૃહસ્થધર્મ નથી. પરંતુ અન્ય પણ છે. એથી તેને કહે છે . - દીનની અનુકંપા કરવી જોઈએ=ધન વગરના અંધ-બધિર-પંગુ-રોગથી પીડિત વગેરે દીનોમાં અનુકંપા કરવી જોઈએ. કેવલ કૃપાથી ધનનો વ્યય કરવો જોઈએ. પરંતુ ભક્તિથી નહિ એ પ્રકારનો ભાવ છે. ભક્તિપૂર્વક સાતક્ષેત્રમાં યથાઉચિત દાન છે. વળી, દીનમાં અવિચારિત પાત્રાપાત્ર અવિચારિત કલ્પ્યાકલ્પ્સના પ્રકારવાળું કેવલ જ કરુણાથી સ્વધનનું વપન ન્યાય્ય છે. દ્દિ=જે કારણથી, નિષ્ક્રમણકાલમાં પાત્રાપાત્રતા વિભાગની અપેક્ષા વગર કરુણાથી ભગવાને સાંવત્સરિક દાન આપેલું. અને આવા

Loading...

Page Navigation
1 ... 327 328 329 330 331 332