________________
धर्भसंग्रह भाग-3/द्वितीय मधिर/दो-४७
૨૦૯
मन्वयार्थ :
धनधान्यं धन-धान्य, क्षेत्र-वास्तु-क्षेत्र-वास्तु, च-मने, रूप्यसुवर्णं यह सनसो, गोमनुष्यादि-गायमनुष्य, चम्सने, कुप्यं-कुष्य, इति से प्रारी, एषां मामती, सङ्ख्याव्यतिक्रमाः संज्याना व्यतिमी, पञ्चमेघiयमा अगुव्रतमi, मतियारी छे. ॥४७॥ लोहार्थ :
ધન-ધાન્ય, ક્ષેત્રવાસ્તુ=અન્યભૂમિરૂપ ક્ષેત્ર અને રહેવાના સ્થાનરૂપ વાસ્તુ, રૂઢ સુવર્ણ-ચાંદી સુવર્ણ, ગોમનુષ્યાદિ=ગાય આદિ પશુઓ અને દાસ-દાસી આદિ મનુષ્યો અને કુષ્ય સુવર્ણ અને ચાંદી સિવાયની અન્ય ધાતુઓ, એ પ્રકારની આમની સંખ્યાના વ્યતિક્રમો પાંચમા અણુવ્રતમાં मतियारी छ. ||४७॥ टी :
'धनधान्यं' 'क्षेत्रवास्तु' 'रूप्यस्वर्ण' 'गोमनुष्यादि' 'कुप्यं' चेति पञ्चानां सङ्ख्या -यावज्जीवं चतुर्मासादिकालावधि वा यत्परिमाणं गृहीतं तस्या ये अतिक्रमाः=उल्लङ्घनानि ते 'पञ्चमे' पञ्चमाणुव्रतेऽतिचारा ज्ञेयाः । तत्र 'धनं' गणिम १ धरिम २ मेय ३ परिच्छेद्य ४ भेदाच्चतु , यदाह - "गणिमं जाईफलफोफलाई, धरिमं तु कुंकमगुडाई । मेज्जं चोपडलोणाइ, रयणवत्थाइ परिछेज्जं ।।१।।" [सम्बोधप्रकरणे श्रा. ५३] धान्यं चतुर्विंशतिधा, व्रताधिकार एवोक्तं सप्तदशधापि, यतः - “साली १ जव २ वीहि ३ कुद्दव ४ रालय ५ तिल ६ मुग्ग ७ मास ८ चवल ९ चिणा १० । तुवरि ११ मसूर १२ कुलत्था १३, गोधुम १४ निष्फाव १५ अयसि १६ सिणा १७ ।।१।।" धनं च धान्यं चेति समाहारः, अत्राग्रे च समाहारनिर्देशात्परिग्रहस्य पञ्चधात्वेनातिचारपञ्चकं सुयोजनं भवति १।
क्षेत्रं-सस्योत्पत्तिभूमिः, तत्रिविधं-सेतुकेतूभयात्मकभेदात्, तत्र सेतुक्षेत्रं यदरघट्टादिजलेन सिच्यते १, केतुक्षेत्रमाकाशोदकपातनिष्पाद्यसस्यम् २, उभयमुभयजलनिष्पाद्यसस्यम् ३, वास्तु-गृहादि ग्रामनगरादि च, तत्र गृहादि त्रेधा-खातं भूमिगृहादि १ उच्छ्रितं प्रासादादि २ खातोच्छ्रितं भूमिगृहोपरिगृहादिसन्निवेशः ३, क्षेत्रं च वास्तु चेति समाहारद्वन्द्वः २ । • तथा रूप्यं-रजतं, घटितमघटितं चानेकप्रकारम्, एवं सुवर्णमंपि, रूप्यं च स्वर्णं चेति समाहारः ३ ।