Book Title: Dharm Sangraha Part 03
Author(s): Pravin K Mota
Publisher: Gitarth Ganga
View full book text
________________
૨૭૨
धर्भसंग्रह भाग-31द्वितीय मधिर| लोs-५८
Gोs:
सचित्ते स्थापनं तेन, स्थगनं मत्सरस्तथा ।
काललयोऽन्यापदेश, इति पञ्चान्तिमे व्रते ।।५८ ।। मन्वयार्थ :
सचित्ते स्थापनंसयतमा स्थापन, तेन स्थगनं तैनाथी स्थगनसायत्तथी स्थगन, मत्सरः मत्सर, तथा=सने, काललयोऽन्यापदेशःलनो संचालतुं GET सने सन्यनो अपश, इतिथे, पञ्च-पांय मतियार, अन्तिमे व्रते=ilतम प्रतमi, छ. ॥५८॥
टोडार्थ:
સચિત્તમાં સ્થાપન, સચિત્તથી સ્થગન, મત્સર, કાલનું ઉલ્લંઘન અને અન્યનો ઉપદેશ એ પાંચ અંતિમ વ્રતમાં અતિચારો છે. II૫૮|| टीका:
सचित्ते स्थापनम, तेन स्थगनम, मत्सरः, काललयोऽन्यापदेशश्चेति पञ्चातिचारा 'अन्तिमे व्रते' अतिथिसंविभागनाम्नि ज्ञेया इत्यन्वयः ।
तत्र सचित्ते-सचेतने पृथिवीजलकुम्भोपचुल्लीधान्यादौ स्थापनं साधुदेयभक्तादेनिक्षेपणम्, तच्चादानबुद्ध्या मातृस्थानतो निक्षिपतीति प्रथमः १ ।
तेन-सचित्तेन कन्दपत्रपुष्पफलादिना तथाविधयैव बुद्ध्या स्थगनं-पिधानमिति द्वितीयः २ । ‘तथा मत्सरः-कोपः यथा साधुभिर्याचितः कोपं करोति, सदपि मार्गितं न ददाति अथवा अनेन तावद्रकेण याचितेन दत्तम्, किमहं ततोऽप्यून? इति मात्सर्याद्ददाति, अत्र परोन्नतिर्वैमनस्यं मात्सर्यम्, यदुक्तमनेकार्थसंग्रहे श्रीहेमसूरिभिः - . “मत्सरः परसम्पत्त्यक्षमायां तद्वति क्रुधि” [३/५७९] इति तृतीयः ३ । तथा कालस्य साधूचितभिक्षासमयस्य लङ्घो-लङ्घनमतिक्रम इतियावत्, अयमभिप्रायः-कालं न्यूनमधिकं वा ज्ञात्वा साधवो न ग्रहीष्यन्ति ज्ञास्यन्ति च यथाऽयं ददातीत्येवं विकल्पतो दानार्थमभ्युत्थानमतीचार इति चतुर्थः ४ ।
तथाऽन्यस्य परस्य सम्बन्धीदं गुडखण्डादीत्यपदेशो व्याजोऽन्यापदेशः, यदनेकार्थसंग्रहे - "अपदेशस्तु कारणे व्याजे लक्ष्येऽपि" [४/३१०] इति ।

Page Navigation
1 ... 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332