Book Title: Dharm Sangraha Part 03
Author(s): Pravin K Mota
Publisher: Gitarth Ganga
View full book text
________________
૨૯૪
धर्भसंग्रह भाग-3 | द्वितीय मधिभार | PRTs-4E જે હિંસા થાય છે તે અધ્યવસાયને મલિન કરનાર નહિ હોવાથી અને યતનાપૂર્વકની ચેત્યાલયના નિર્માણની પ્રવૃત્તિ ભગવાનની ભક્તિમાં અતિશય કરનાર હોવાથી પ્રમાણભૂત છેઃનિર્જરાનું કારણ છે. टी :
जिनागमक्षेत्रे स्वधनवपनं, यथा जिनागमो हि कुशास्त्रजनितसंस्कारविषसमुच्छेदनमन्त्रायमाणो धर्माधर्मकृत्याकृत्यभक्ष्याभक्ष्यपेयापेयगम्यागम्यसारासारादिविवेचनाहेतुः सन्तमसे दीप इव समुद्रे द्वीपमिव मरौ कल्पतरुरिव संसारे दुरापः, जिनादयोऽप्येतत्प्रामाण्यादेव निश्चीयन्ते, यदूचः स्तुतिं श्रीहेमसूरयः
“यदीयसम्यक्त्वबलात्प्रतीमो, भवादृशानां परमाप्तभावम् । ___ कुवासनापाशविनाशनाय नमोऽस्तु तस्मै जिन(तव)शासनाय ।।१।।" [अयोगव्यवच्छेद्वात्रिंशिकायाम्
२१]
__ जिनागमबहुमानिना च देवगुरुधर्मादयोऽपि बहुमता भवन्ति, किञ्च केवलज्ञानादपि जिनागम एव प्रामाण्येनातिरिच्यते, यदाहुः"ओहे सुओवउत्तो, सुअनाणी जइहु गिण्हइ असुद्धं । तं केवलीवि भुंजइ, अपमाण सुअं भवे इहरा ।।१।।" [पिण्डनियुक्तौ गा. ५२४] एकमपि च जिनागमवचनं भविनां भवविनाशहेतुः, यदाहुः“एकमपि च जिनवचनाद्यस्मानिर्वाहकं पदं भवति । श्रूयन्ते चानन्ताः, सामायिकमात्रपदसिद्धाः ।।१।।" [तत्त्वार्थसम्बन्धकारिका २७] यद्यपि च मिथ्यादृष्टिभ्य आतुरेभ्य इव पथ्यान्नं न रोचते जिनवचनम्, तथापि नान्यत्स्वर्गापवर्गमार्गप्रकाशनसमर्थमिति सम्यग्दृष्टिभिस्तदादरेण श्रद्धातव्यम्, यतः कल्याणभागिन एव जिनवचनं भावतो भावयन्ति, इतरेषां तु कर्णशूलकारित्वेनामृतमपि विषायते यदि चेदं जिनवचनं नाभविष्यत्तदा धर्माधर्मव्यवस्थाशून्यं भवान्धकारे भुवनमपतिष्यत् । यथा च-'हरीतकी भक्षयेद्विरेककाम' इति वचनाद्धरीतकीभक्षणप्रभवविरेकलक्षणेन प्रत्ययेन सकलस्याप्यायुर्वेदस्य प्रामाण्यमवसीयते, तथाऽष्टा
ङ्गनिमित्तकेवलिकाचन्द्रार्कग्रहचारधातुवादरसरसायनादिभिरप्यागमोपदिष्टैर्दृष्टार्थवाक्यानां प्रामाण्यनिश्चयेनादृष्टार्थानामपि वाक्यानां प्रामाण्यं मन्दधीभिर्निश्चेतव्यम्, जिनवचनं दुष्षमाकालवशादुच्छिन्नप्रायमिति मत्वा भगवद्भिर्नागार्जुनस्कन्दिलाचार्यप्रभृतिभिः पुस्तकेषु न्यस्तम्, ततो जिनवचनबहुमानिना तल्लेखनीयम्, वस्त्रादिभिरभ्यर्चनीयं च । यदाह"न ते नरा दुर्गतिमाप्नुवन्ति, न मूकतां नैव जडस्वभावम् । न चान्धतां बुद्धिविहीनतां च, ये लेखयन्तीह जिनस्य वाक्यम् ।।१।।"

Page Navigation
1 ... 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332