________________ अभिज्ञान-शाकुन्तलम् [प्रथमो नेपथ्ये-] भो भोस्तपस्विनः ! 'तपोवनसन्निहितसत्त्वरक्षणाय सज्जीभवन्तु भवन्तः / प्रत्यासन्नः किल मृगयाविहारी राजा दुष्यन्तः / / [अनेन नायिकालङ्कारो विलासो नाम प्रकटितः / तदुक्तं विश्वनाथेन-'यानस्थानाऽऽमनादीनां मुख-नेत्रादिकर्मणाम् / विशेषस्तु विलासः स्यात्'-इति / अनुगगेङ्गितं च मदनोदये-'विकारो नेत्रवक्त्रस्य, तद्वाक्यश्रवणादरः / अन्यव्याजेन तद्वीक्षा, अनुगगेङ्गितं मत'मिति / अनुप्रासः / प्राप्तिर्नाम मुखसन्ध्यङ्ग, 'प्राप्तिः' सुखागमः' इति दर्पणात् // 33 // प्रकृतप्रमङ्गभङ्गाय भेदं मुखमध्यङ्गमवतारयति-नेपथ्य इति / तपोवने सन्निहितानां = स्थितानां / पालितानां / सत्त्वानां = मृगादिजन्तूनां / रक्षणाय = पालनाय / सजीभवन्तु = उद्यता भवन्तु / किल = प्रसिद्ध, मृगयया विहः शीलमस्य-मृगयाविहारी = आखेटरसिकः / प्रत्यासन्नः = निकटवर्ती / येन वन्यसामान्यमृगादिभ्रमेणाऽऽश्रममृगास्तेन न हताः स्युरिति आश्रमतापसानां घोषणैषा / चूलिकेयं,-'अन्तर्यवनिकासंस्थैः सूचनाऽर्थस्य चूलि के ति दर्पणे लक्षणात् / अङ्केवदर्शनीया या, वक्तव्यैव च संमत।। या च स्याद्वर्षपर्यन्तं कथा, दिनद्वयादिजा / / अन्या च विस्तरात्सूच्या, सार्थोपक्षेपकैर्बुधैः। अर्थोपक्षेपकाः पञ्च विष्कम्भकप्रवेशको / चूलिकाऽङ्कावतारोऽथ स्यादङ्कमुखमित्यपि // ' इति च विश्वनाथः / / बातें प्रेम से सुनती है। और यद्यपि यह ठोक है; कि-यह मेरी ओर मुख करके नहीं बैठती है, परन्तु इसकी दृष्टि ज्यादा देर दूसरे विषय में न लग कर घम फिर कर बार 2 मेरे ही ऊपर आकर टिकती है। और ये लक्षण अनुराग के ही हैं / // 33 // [नेपथ्य में = पर्दे के पीछे से-] हे आश्रमवासी तपस्विजनों ! तपोवन के जीवों की रक्षा के लिए आप लोग सावधान एवं सन्नद्ध हो जाइए / क्योंकि महाराज दुष्यन्त शिकार खेलने इधर ही आए हुए हैं। 1. 'संनिहितास्तपोवनसत्त्वरक्षायै भवत' / 2. 'पार्थिवो' पा० /