________________ 198 " अभिज्ञानशाकुन्तलम्- [तृतीयोकिं शीकरैः क्लमविमर्दिभिराद्रवातं सञ्चालयामि नलिनीदलतालवृन्तम् / अङ्के निधाय चरणावुत पद्मताम्रौ संवाहयामि करभोरु ! यथासुखन्ते // 25 // शकुन्तला--ण माणणीएसुं जणेसुं अत्ताणं अबराहइस्सं / [न माननीयेषु जनेष्वात्मानमपराधयिष्यामि ] / किमिति / क्लमं विमृद्गन्ति तच्छीलैः-क्लमविमदिभिः = सन्तापहारिभिः / शीकरैः = जलकणैः / आद्रो वातो यस्य तत्-आर्द्रवात = क्लिन्नपवनं / नलिनीनां दलैनिमितं-तालवृत्तं- नलिनीदलतालवृन्तं = पद्मिनीपत्रविचितं व्यजनामदम् / 'व्यजनं तालवृन्तं स्यादित्यमरः। सञ्चालयाभि = वीजयामि किम् ? / उत = किं वा ? / करभोरु ! = हे परिवृत्तोरु ! पद्मवत्ताम्रौ-पद्मताम्रौ = कमलोदररक्तौ / ते = तव / चरणौ = पादौ / अङ्के = उत्सङ्गे। निधाय = स्थापयित्वा / यथासुख = मन्दमन्दं / संवाहयामि = मर्दयामि किम् / [ पूर्वार्धोत्तरार्द्धयोर्विकल्पालङ्कारः / काव्यलिङ्गपरिकर वृत्त्यनुप्रासाः। पद्मताम्र-करभोरुपदयोरुपमा / नलिनीदले तालवृन्तत्वारोपस्य प्रकृतोपयोगित्वात्परिणामः। उपन्यासो नाम प्रतिमुखसन्ध्यङ्गम् / तदुक्तं विश्वनाथेन–'उपन्यासः प्रसादन मिति / माला नाम नाट्यभूषणज्य प्रदर्शितं-'माला स्याद्यदभीष्टार्थप्रकाशन मिति भरतात् / वसन्ततिलकं च छन्दः ] // 25 // ___माननीयेषु = चक्रवर्तितया सर्वजनमाननीयेषु / जनेषु = भवद्विधेषु / आत्मानमपराधयिष्यामि = संवाहनादिकर्मानुज्ञानेनात्मानं कृतपापाचरणं विधास्यामि ! ___ क्या सन्ताप को दूर करने वाले और ठण्ढे 2 जल के कणों से भीगे रहने से जिसकी हवा ठण्डी हो रही है, ऐसे कमलिनी के पत्तों से बने हुए इस पंखे को हिला कर तुम्हें हवा करूँ ? / या पन की तरह लाल व कोमल तुमारे दोनों चरणों को अपनी गोद में रख कर, क्या सुखदरूप से धीरे 2 दबाऊँ ? // 25 // शकुन्ता -मैं माननीय जनों से ( आप ऐसे प्रतापी चक्रवर्ती राजा से ) अपनी सेवा का कार्य कराकर अपने को अपराधी नहीं बनाऊँगी। ऐसा कह कर