Book Title: Abhigyan Shakuntalam Nam Natakam
Author(s): Mahakavi Kalidas, Guruprasad Shastri
Publisher: Bhargav Pustakalay

View full book text
Previous | Next

Page 609
________________ , अभिज्ञानशाकुन्तलम् 605 करचुकी-अस्मात्प्रभवतो वैमनस्यादुत्सवः प्रत्याख्यातः / उभे-जुज्जइ / [युज्यते / (नेपश्ये-) एदु एदु भवं / [ एतु एतु भवान् ] / कञ्चकी-(कर्ण दत्त्वा- ) अये ! इत एवाभिवर्त्तते देवः / स्वकर्माऽनुष्ठीयताम् / उभे-तह / (-इति निष्क्रान्ते ) / / [तथा / (ततः प्रविशति पश्चात्तापसदृशवेषो राजा, विदूषकः, प्रतीहारी च)। कञ्चकी-( राजानमवलोक्य-) अहो सर्वास्ववस्थासु रमणीयत्वमाकृतिविशेषाणाम् ! / एवमुत्सुकोऽपि प्रियदर्शनो देवः / तथाहिप्रत्यादिष्टविशेषमण्डनविधिर्वामप्रकोष्ठार्पितं बिभ्रत्काञ्चनमेकमेव वलयं, श्वासोपरक्ताधरः चिन्ताजागरणप्रतान्तनयनस्तेजोगुणादात्मनः संस्कारोल्लिखितो महामणिरिव क्षीणोऽपि नाऽऽलक्ष्यते // 6 // सानुमती-( राजानं दृष्ट्वा-) ठाणे क्खु पच्चादेसविमाणिदा कि इमस्स किदे सउन्दला किलम्मदि त्ति / [स्थाने खलु प्रत्यादेशविमानिताप्यस्य कृते शकुन्तला क्लाम्यतीति ] / राजा-(ध्यानमन्दं परिक्रम्य-) प्रथमं सारङ्गाक्ष्या प्रियया प्रतिबोध्यमानमपि सुप्तम् / अनुशयदुःखायेद हतहृदयं संप्रति विबुद्धम् ! // 7 // सानुमती-णं ईदिसाणि तवस्सिणीए भाअहेआणि / [ नन्वीदृशानि तपस्विन्या भागधेयानि ] / विदूषकः-(अपवार्य-) लंघिदो एसो भूओ वि सउन्दलावाहिणा। ण आणे कहं चिकिच्छिदब्बो भविस्सदि त्ति / [लचित एष भूयोऽपि शकुन्तलाव्याधिना / न जाने कथं चिकित्सितव्यो भविष्यतीति 1] / .. कञ्चकी-( उपगम्य-) जयतु जयतु देवः / महाराज ! प्रत्यवेक्षिताः प्रमदवनभूमयः / यथाकाममध्यास्तां विनोदस्थानानि महाराजः /

Loading...

Page Navigation
1 ... 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640