Book Title: Abhigyan Shakuntalam Nam Natakam
Author(s): Mahakavi Kalidas, Guruprasad Shastri
Publisher: Bhargav Pustakalay
View full book text
________________ 612 - दाक्षिणात्यपाठानुसारि [षष्टो राजा-अहं हिसाक्षात्प्रियामुपगतामपहाय पूर्व, चित्रार्पितां पुनरिमां बहु मन्यमानः। स्रोतोवहां पथि निकामजलामतीत्य, जातः सखे ! प्रणयवान्मृगतृष्णिकायाम् // 16 // / विदूषकः-(आत्मगतम्-) एसो अत्तभवं णदिं अदिक्कमिभ * मिमनिहिमा संक्वन्तो। (प्रकाशम-) भो ! अवरं किं एत्थ लिहिदन्वं ? / . [एषोऽत्रभवानदीमतिक्रम्प मृगतृष्णिकां संक्रान्तः / भोः ! अपरं किमत्र लिखितव्यम् / - सानुमती-जो जो पदेसो सहीए मे अहिरूवो तं तं आलिहिदुकामो भवे ? / [यो यः प्रदेशः सख्या मेऽभिरूपरतं तमालिखितुकामो भवेत् ? ] / राजा-श्रयताम्- कार्या सैकतलीनहंसमिथुना स्रोतोवहा मालिनी, ... . पादास्ताभितो निषण्णहरिणा गौरीगुरोः पावनाः। ... शाखालम्बितवल्कलस्य च तरोनिर्मातुमिच्छाम्यधः, शृङ्गे कृष्णमृगस्य वामनयनं कण्डूयमानां मृगीम् // 17 // विदूषकः-(आत्मगतम्-.) जह अहं देवखामि परिदन्वं णेन चित्तफलों सम्बकुच्चाणं वावसाणं कदम्बेहिं / [यथाऽहं पश्यामि पूरितव्यमनेन चित्रफलक लम्बकूर्चानां तापसानां कदम्बैः] / राजा-वयस्य ! अन्यच्च शकुन्तलायाः प्रसाधनमभिप्रेतमस्माभिः / विदूषकः-किं विभ[किमिव 1] / सानुमती-वणवासरस, सो माररस, विणभरस अ जं सरिसं भविस्सदि। [वनवासस्य, सौकुमार्यस्य, विनयस्य च यत्सदृशं भविष्यति / राजा___ कृतं न कर्णार्पितबन्धनं सखे ! शिरीषमागण्डविलम्बिकेसरम् / न वा शरच्चन्द्रमरीचिकोमलं, मृणालसूत्रं रचितं स्तनान्तरे // 18 //
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/dc85a90b4a76a366222b7e2e0e709272f33ad1d2e6821a7deaa07d41b6519331.jpg)
Page Navigation
1 ... 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640