Book Title: Abhigyan Shakuntalam Nam Natakam
Author(s): Mahakavi Kalidas, Guruprasad Shastri
Publisher: Bhargav Pustakalay
View full book text
________________ अभिज्ञानशाकुन्तलम् 623 राजा-(.अघोऽवलोक्य-) वेगावतरणादाश्चर्यदर्शनः संलक्ष्यते मनुष्यलोकः / तथाहि. शैलानामवरोहतीव शिखरादुन्मजतां मेदिनी, पर्णस्वान्तरलीनतां विजहति स्कन्धोदयात्पादपाः / संतानैस्तनुभावनष्टसलिला व्यक्तिं भजन्त्यापगाः, केनाप्युरिक्षपतेव मत्त्यंभुवनं मत्पाश्वमानीयते ! // 8 // मातलि:-साधु दृष्टम् / ( सबहुमानमवलोक्य-) अहो! उदाररमणीया पृथिवी। राजा-मातले ! कतमोऽयं पूर्वाऽपरसमुद्रावगाढः, कनकरसनिष्यन्दो, सान्ध्य इव मेघपरिघः सानुमानालोक्यते / मातलि:-आयुष्मान् ! एष खलु हेमकूटो नाम किंपुरुषपर्वतस्तपःसंसिद्धिक्षेत्रम् / पश्य स्वायम्भुवान्मरीचेर्यः प्रबभूव प्रजापतिः / सुराऽसुरगुरुः सोऽत्र सपत्नीकस्तपस्यति // 9 // राजा-तेन धनतिक्रमणीयानि श्रेयांसि / प्रदक्षिणीकृत्य भगवन्तं गन्तुमिच्छामि / मातलि:-प्रथमः कल्पः / (-नाट्येनावतीणों ) / राजा-( सविस्मयम्-) उपोढशब्दा न रथाङ्गनेमयः, प्रवत्तेमानं न च दृश्यते रजः। अभूतलस्पर्शतया निरुद्धत 'स्तवावतीर्णोऽपि रथो न लक्ष्यते ! // 10 // मातलिः-एतावानेव शतक्रतोरायुष्मतश्च विशेषः / राजा-मातले ! कतमस्मिन्प्रदेशे मारीचाश्रमः ? / मातलि:-( हस्तेन दर्शयन्-) .. वल्मीकाऽप्रनिमग्नमूर्तिरुरसा संदष्टसर्पत्वचा, कण्ठे जीर्णलताप्रतानवलयेनात्यर्थसंपीडितः / 1 'पर्णाभ्यन्तर'। 2 'पश्य' /
Page Navigation
1 ... 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640