Book Title: Abhigyan Shakuntalam Nam Natakam
Author(s): Mahakavi Kalidas, Guruprasad Shastri
Publisher: Bhargav Pustakalay

View full book text
Previous | Next

Page 628
________________ 624 दाक्षिणात्यपाठानुसारि- [सप्तमोअंसव्यापि शकुन्तनीडनिचितं बिभ्रजटामण्डलं, ___यत्र स्थाणुरिवाऽचलो मुनिरसावभ्यर्कबिम्बं स्थितः // 11 // राजा-नमोऽस्त्वस्मै कष्टतपसे / मातलिः-(संयतप्रग्रहं रथं कृत्वा-) महाराज ! एतावदितिपरिवर्द्धितमन्दारवृक्षं प्रजापतेराश्रमं प्रविष्टौ स्वः / राजा-स्वर्गादधिकतरं निवृतिस्थानम् / अमृतहदमिवावगाढोऽस्मि / मातलि:-( रथं स्थापयित्वा-) अवतरत्वायुष्मान् / राजा-(अवतीर्य-) मातले ! भवान्कथमिदानीम् ? / मातलि:-संयन्त्रितो मया रथः / क्यमप्यवतरामः / (तथा कृत्वा-) इत इत आयुष्मन् ! / ( परिक्रम्य-) दृश्यन्तामत्रभवतामृषीणां तपोवनभूमयः। राजा-ननु विस्मयादवलोकयामि / प्राणानामनिलेन वृत्तिरुचिता सत्कल्पवृक्षे वने, तोये काञ्चनपद्मरेणुकपिशे धर्माभिषेकक्रिया / ध्यानं रत्नशिलातलेषु, विबुधस्त्रीसंनिधौ संयमो, ___ यत्काङ्क्षन्ति तपोभिरन्यमुनयस्तस्मिंस्तपस्यन्त्यमी ! // 12 // मातलिः-उत्सर्पिणी खलु महतां प्रार्थना / ( परिक्रम्य, आकाशे-) 'अये वृद्धशाकल्य ! किमनुतिष्ठति भगवान्मारीच:' ? / किं ब्रवीषि-'दाक्षायण्या पतिव्रताधर्ममधिकृत्य पृष्टस्तस्यै महर्षिपत्नीसहितायै कथयतीति, / राजा-( कर्ण दत्त्वा-) अये ! प्रतिपाल्यावसरः खलु प्रस्तावः / मातलि:-( राजानमवलोक्य-) अस्मिन्नशोकवृक्षमूले तावदास्तामायुष्मान, यावत्त्वामिन्द्रगुरवे निवेदयितुमन्तरान्वेषी भवामि / राजा-यथा भवान्मन्यते / ( -इति स्थितः ) / मातलि:-आयुष्मन् ! साधयाम्यहम् / (-इति निष्क्रान्तः ) / राजा-(निमित्तं सूयित्वा-) मनोरथाय नाऽऽशंसे, किं बाहो ! स्पन्दसे वृथा / पूर्वावधीरितं श्रेयो, दुःखं हि परिवर्त्तते // 13 //

Loading...

Page Navigation
1 ... 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640