Book Title: Abhigyan Shakuntalam Nam Natakam
Author(s): Mahakavi Kalidas, Guruprasad Shastri
Publisher: Bhargav Pustakalay
View full book text
________________ ऽङ्कः ] अभिज्ञानशाकुन्तलम् 627 तापसी-भद्दमुह ! ण खु अअं इसिकुमारओ। [भद्रमुख ! न खल्वयं ऋषिकुमारः] / राजा-आकारसदृशं चेष्टितमेवाऽस्य कथयति / स्थानप्रत्ययात्त एवं तर्किणः / ( यथाभ्यर्थितमनुतिष्ठन्वालस्पर्शमुपलभ्य, आत्मगतम्-) अनेन कस्याऽपि कुलाङ्कुरेण, स्पृष्टस्य गात्रेषु सुखं ममैवम् / कां निवृतिं चेतसि तस्य कुर्या द्यस्यायमङ्कास्कृतिनः प्ररूढः ? // 19 / / तापसी-(उभौ निर्वर्ण्य-) अच्छरिअं! अच्छरिअं !! / [आश्चर्यमाश्चर्यम् ] / राजा-आर्ये किमिव ? / तापसी-इमस्स बालअस्स दे वि संवादिणी आकिदी ति विह्माविदहि / अपरिइदस्स वि दे अप्पडिलोमो संवुत्तो त्ति / . [ अस्य बालस्य तेऽपि संवादिन्याकृतिरिति विस्मापिताऽस्मि / अपरिचितस्यापि तेऽप्रतिलोमः संवृत्त इति ] / राजा-(बालकमुपलालयन्-) न चेन्मुनिकुमारोऽयम्, अथ कोऽस्य व्यपदेशः / तापसी-पुरुवंसो। [ पुरुवंशः ] / . राजा-(आत्मगतम्-)। कथमेकान्वयो मम ? / अतः खलु मदनुकारिणमेनमत्रभवती मन्यते / अस्त्येतत्पौरवाणामन्त्यं कुलव्रतम्भवनेषु रसाधिकेषु पूर्व, क्षितिरक्षार्थमुशन्ति ये निवासम् / नियतैकपतिव्रतानि पश्चा तरुमूलानि गृहीभवन्ति तेषाम् // 20 // (प्रकाशम्-) न पुनरात्मगत्या मानुषाणामेष विषयः / / तापसी-जह भहमुहो भणादि / अच्छरासबन्धेण इमस्स जणणी एत्थ देवगुरुणो तवोवणे पसूदा। [ यथा भद्रमुखो भणति / अप्सरःसंबन्धेनाऽस्य जनन्यत्र देवगुरोस्तपोवने प्रसूता] /
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/31f8be4b4fe7eb6f441c27c4fe69dc489e792b9b117bf4ba9eb21d4157ae2b3d.jpg)
Page Navigation
1 ... 629 630 631 632 633 634 635 636 637 638 639 640