Book Title: Abhigyan Shakuntalam Nam Natakam
Author(s): Mahakavi Kalidas, Guruprasad Shastri
Publisher: Bhargav Pustakalay
View full book text
________________ ऽङ्कः] 40 अभिज्ञानशाकुन्तलम् દર .. ( नेपथ्ये-) मा क्खु चावलं करेहि 1 / कहं गदो जेव अत्तगो पकिदि। [मा खलु चापलं कुरु / कथं गत एवात्मनः प्रकृतिम् 1] / राजा-( कर्ण दत्त्वा-) अभूमिरियमविनयस्य / को नु खल्वेष निषिध्यते ? / ( शब्दानुसारेणावलोक्य, सविस्मयम्-) अये ? को नु खल्वयमनुबध्यमानस्तपस्विनीभ्यामबालसत्त्वो बालः ? / अर्द्धपीतस्तनं मातुरामईक्लिष्टकेसरम् / __ प्रक्रीडितुं सिंहशिशु बलात्कारेण कर्षति ! // 14 // ( ततः प्रविशति यथानिर्दिष्टकर्मा तपस्विनीभ्यां बालः ) / बाल:-जिम्म सिङ्घ / दन्ताई दे गणइस्सं / [ जुम्भस्व सिंह ! दन्तांस्ते गणयिष्ये ] / प्रथमा-अविणीद ! किं णो अपञ्चगिव्विसेसाणि सत्ताणि विप्पअरेसि ? / हन्त ! वड्डइ दे संरम्भो / ठाणे क्खु इसिजणेण सव्वदमणो ति किदणामहेओ सि / [ अविनीत ! किं नोऽपत्यनिर्विशेषाणि सत्त्वानि विप्रकरोषि ? / हन्त ! वर्द्धते तव संरम्भः / स्थाने खलु ऋषिजनेन 'सर्वदमन' इति कृतनामधेयोऽसि / राजा-किं नु खलु बालेऽस्मिन्नौरस इव पुत्रे स्निह्यति मे मनः / नूनमनपत्यता मां वत्सलयति / द्वितीया-एसा क्खु केसरिणी तुम लछेदि, जइ से पुत्र ण मुञ्चेसि / [एषा खलु केसरिणा त्वां लङ्घयिष्यति, यदि तस्याः पुत्रकं न मुञ्चसि / बाल:-( सस्मितम् -- ) अह्महे ! बलिअं क्खु भीदो ह्मि ! (-इत्यधर दर्शयति ) / [ अहो ! बलीयः खलु भीतोऽस्मि ! ] / राजा . महतस्तेजसो बीजं बालोऽयं प्रतिभाति मे / स्फुलिङ्गावस्थया वह्निरेधोऽपेक्ष इव स्थितः / / 15 // प्रथमा–वच्छ ! एवं बालमिइन्दअं मुञ्च / अवरं दे कीलण दाइस्सं / ' [ वत्सं ! एनं बालमृगेन्द्रं मुञ्च / अपरं ते क्रीडनकं दास्यामि] / बालः-कहिं ? / देहि णं / (-इति हस्तं प्रसारयति ) / [ कुत्र ?, देह्येतत् ]
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/c85a8f74183a0e2fbcd2f34f01ddb154dee84a842c2f6bea43af4214a00707c0.jpg)
Page Navigation
1 ... 627 628 629 630 631 632 633 634 635 636 637 638 639 640