Book Title: Abhigyan Shakuntalam Nam Natakam
Author(s): Mahakavi Kalidas, Guruprasad Shastri
Publisher: Bhargav Pustakalay
View full book text
________________ 617 ऽङ्कः ] अभिज्ञानशाकुन्तलम्. [ अपरिच्छिन्नेद्रानी ते सन्ततिर्भविष्यति ] / चतुरिका-( जनान्तिकम् - ) अए ! इमिणा सत्यवाहवुत्तन्तेण दिउणुव्वेओ भट्टा। णं अस्सासिढुं मेहप्पडिच्छन्दादो अज्ज माढव्वंगेह्निअ आअच्छामि। [ अयि ! अनेन सार्थवाहवृत्तेन द्विगुणोद्वेगो भर्ता / एनमाश्वासयितुं मेघप्रतिच्छन्दादाय माढव्यं गृहीत्वाऽऽगच्छामि ] | प्रतीहारी-सुट्ठ भणासि / (-इति निष्क्रान्ता)। [ सुष्ठु भणसि ] | राजा-अहो दुष्यन्तस्य संशयमारूढाः पिण्डभाजः ! / कुतः 1-.. 'अस्मात्परं बत ! यथाश्रुति संभृतानि, ___ को नः कुले निवपनानि नियच्छती'ति / नूनं प्रसूतिविकलेन मया प्रसिक्तं,.. धौताश्रुशेषमुदकं पितरः पिबन्ति // 25 / / ( - इति मोहमुपगतः)। चतुरिका-( ससम्भ्रममवलोक्य-) समस्ससदु भट्टा / [ समाश्वसितु भर्ता]। सानुमती-हद्धी हद्धी / सदि क्खु दीवे ववधाणदोसेण एसो अन्धआरदोसं अणुहोदि / अहं दाणिं एव्व णिवुदं करेमि / अहवा सुदं मए सउन्दलं समस्सअन्तीए महेन्द्रजणणींए मुहादो-'जण्णभाओस्सुआ देवा एव तह अणुचिट्ठिस्सन्ति जह अइरेण धम्मपदिणि भट्टा अहिणन्दिस्सदि' त्ति / ता ण जुत्तं कालं पडिपालिदुं / जाव इमिणा वुत्तन्तेण पिअसहिं समस्सासेमि / / (-इत्युद्धान्तकेन निष्क्रान्ता ) / [ हा धिक् हा धिक् / सति खलु दीपे व्यवधानदोषेणैषोऽन्धकारदोषमनुभवति / अहमिदानीमेव निर्वृतं करोमि / अथवा श्रुतं मया शकुन्तलां समाश्वासयन्त्या महेन्द्रजनन्या मुखात्-'यज्ञभागोत्सुका देवा एव तथानुष्ठास्यन्ति, यथाऽचिरेण धर्मपत्नीं भर्ताऽभिनन्दिष्यतीति / तन्न युक्तं कालं प्रतिपालयितुम् / यावदनेन वृत्तान्तेन प्रियसखी समाश्वासयामि / (नेपये-) अब्बह्मण्णम् / [ अब्रह्मण्यम् ] /
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/487e7a38541bec6f4d8c8599431bdca9dfc707d04a52f1fe9a302feeb2522148.jpg)
Page Navigation
1 ... 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640