Book Title: Abhigyan Shakuntalam Nam Natakam
Author(s): Mahakavi Kalidas, Guruprasad Shastri
Publisher: Bhargav Pustakalay

View full book text
Previous | Next

Page 608
________________ 604 दाक्षिणात्यपाठानुसारि-. [षष्ठो wwwm उभे-णस्थि सन्देहो / महाप्पहाओ राएसी। [ नास्ति संदेहः / महाप्रभावो राजर्षिः] / प्रथमा-अज्ज ! कति दिअहाई अह्माणं मित्तावसुणा रट्रिएण भट्टिणीपाअमूलं पेसिदाणं / इत्थं अ णो पमदवणस्स पालणकम्म समप्पिदं / ता आअन्तुअदाए अस्सुदपुव्वो अहोहिं एसो वुत्तन्तो।। [आर्य ! कतिदिवसान्यावयोभित्रावसुना राष्ट्रियेण भट्टिनीपादमूलं प्रेषितयोः / इत्थं च नौ प्रमदवनस्य पालनकर्म समर्पितम् / तदागन्तुकतयाऽश्रुतपूर्व आवाभ्यामेष वृत्तान्तः] / कञ्चकी-भवतु / न पुनरेवं प्रवर्तितव्यम् / उभे-अज्ज ! कोदूहलं णो। जह इमिणा जणेण सोदव्वं-कहेदु असं किंणिमित्तं भट्टिणा वसन्तुस्सवो पडिसिद्धो ? / [ आर्य ! कौतूहलं नौ / यद्यनेन जनेन श्रोतव्यं, कथयतु–'अयं किंनिमित्तं मा वसन्तोत्सवः प्रतिषिद्धः' ?] / सानुमती-उस्सवप्पिा क्खु मणुस्सा / गुरुणा कारणेण होदव्वं / [ उत्सवप्रियाः खलु मनुष्याः / गुरुणा कारणेन भवितव्यम् ] / कञ्चुकी-बहुलीभूतमेतल्कि न कथ्यते ? / किमत्रभवत्योः कर्णपथं नायात शकुन्तलाप्रत्यादेशकौलीनम् ? / ' उभे-सुदं रडिअमुहादो जाव अङ्गुलीअ अदंसणं। [ श्रुतं राष्ट्रियमुखाद्यावढङ्गुलीयकदर्शनम् ] / कञ्चुकी-तेन ह्यल्पं कथयितव्यम् / यदैव खलु स्वाङ्गुलीयकदर्शनादनुस्मृतं देवेन-'सत्यमूढपूर्वा मे तत्रभवती रहसि शकुन्तला, मोहात्प्रत्यादिष्टे'ति, तदाप्रभृत्येव पश्चात्तापमुपगतो देवः / तथाहिरम्यं द्वेष्टि, यथा पुरा प्रकृतिभिर्न प्रत्यहं सेव्यते, _ शय्याप्रान्तविवर्त्तनैर्विगमयत्युन्निद्र एव क्षपाः। . दाक्षिण्येन ददाति वाचमुचितामन्तःपुरेभ्यो, यदा / गोत्रेषु स्खलितस्तदा भवति च ब्रीडाविलक्षश्चिरम् // 5 // सानुमती-पिों मे [ प्रियं मे] |

Loading...

Page Navigation
1 ... 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640