Book Title: Abhigyan Shakuntalam Nam Natakam
Author(s): Mahakavi Kalidas, Guruprasad Shastri
Publisher: Bhargav Pustakalay

View full book text
Previous | Next

Page 613
________________ 609 ऽङ्कः] 39 . अभिज्ञानशाकुन्तलम् . विदूषकः-मा एन्वं / णं अङ्गुलीअअं एव णिदसणं-अवस्संभावी अचिन्तणिजो समाजमो होदि त्ति / [मैवम् / नन्वङ्गुलीयकमेव निदर्शनमवश्यं भावी अचिन्तनीयः समागमो भवतीति / राजा-(अङ्गुलीयकं विलोक्य-) अये ! इदं तावदसुलभस्थानभ्रंशि शोचनीयम् / तव सुचरितमङ्गुलीय ! नूनं, प्रतनु ममेव विभाव्यते फलेन / * अरुणनखमनोहरासु तस्या श्युतमसि लब्धपदं यद्गुलीषु // 11 // सानुमती-जइ अण्णहत्थगदं भवे सच्चं एव्व सोअणिजं भवे / [ यद्यन्यहस्तगतं भवेत्सत्यमेव शोचनीयं भवेत् ] / विदूषकः-भो! इअं णाममुद्दा केण उग्धादेण तत्तहोदीए हस्थान्भासं पाविदा ? / [भोः ! इयं नाममुद्रा केनोद्घातेन. तत्रभवत्या हस्ताभ्याशं प्रापिता ? 11 सानुमती-मम वि कोदूहलेण आआरिदो एसो! [ ममापि कौतूहलेनाऽऽकारित एषः ] | .. राजा-श्रृयताम्,-स्वनगराय प्रस्थितं मां प्रिया सवाष्पमाह-'कियचिरेणाऽऽर्यपुत्रः प्रतिपत्तिं दास्यतीति / . विदूषकः-तदो तदो ? / [ ततस्ततः / राजा-पश्चादिमा मुद्रां तदङ्गुलौ निवेशयता मया प्रत्यभिहिता, एकैकमत्र दिवसे दिवसे मदीयं नामाऽक्षरं गणय, गच्छति यावदन्तम् / तावत्प्रिये ! मदवरोधगृहप्रवेशं नेता जनस्तव समीपमुपैष्यतीति // 12 // सानुमती-रमणीओ क्खु अवही विहिणा विसंवादिदो / [रमणीयः खल्ववधिर्विधिना विसंवादितः]। विदूषकः-कहं धीवलकप्पिअस्स लाहिअमच्छस्स उदलब्भन्तले आसि / [कथं धीवरकल्पितस्य रोहितमत्स्यस्योदराभ्यन्तरे आसीत् ?] /

Loading...

Page Navigation
1 ... 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640