________________ 214 अभिज्ञानशाकुन्तलम् [तृतीयोशकुन्तला-अ जेव अच्चाअरो अविस्सासजणओ। [अयमेवाऽत्यादरोऽविश्वासजनकः ] / राजा-( स्वगतम्-) नाऽहमेवं रमणीयमात्मनः सेवावसरं शिथिलयिष्ये / (-मुखमुन्नमयितुं प्रवृत्तः)। ('शकुन्तला–प्रतिषेधं रूपयन्ती विरमति ) / राजा-अयि मदिरेक्षणे ! अलमस्मदविनयाऽऽशङ्कया। स्वामित्वेन मम निर्देशात्प्रतीयमानः। अविश्वासजनकः = तव अविस्रम्भभाजनतां व्यनक्तीत्यर्थः। ___ एवं रमणीयम् - अतिपेशलं / सेवावसरम् = उपचारावसरम् / एकान्ते विस्रब्धप्रियालाभादुपनतं नेत्रविशदीकरणरूपं / न शिथिलयिष्ये = अहं नैवाऽपनेष्यामि / न त्यक्ष्यामि / न अपनयामि / मनसि विभाव्येत्थं-लोचनरजोऽपनयनाय प्रवर्त्तमाने राजनि-शकुन्तला, प्रतिषेधं रूपयन्ती = कृतकं निषेधं नाटयन्ती। अविनयस्याऽऽशङ्का तया-अविनयाऽऽशङ्कया = धाष्टर्याशङ्कया / नाहं बलात्कारविरसं प्रणयं करिष्यामीत्याशयः / एवञ्च ते नेत्ररज एवापनेष्यामीति भावः / शकुन्तला-आपका यह ज्यादा सत्कार प्रदर्शन करना ही तो मेरे मन में अविश्वास उत्पन्न कर रहा है। राजा-(मन ही मन ) मैं इस रमणीय अवसर को अपने हाथ से कभी जाने नहीं दूंगा / ( शकुन्तला का मुख ऊपर को करने में प्रवृत्त होता है)। . [शकुन्तला-नाहीं नाहीं करती हुई, अन्त में चुप हो जाती है / राजा-हे सुन्दर तीखे नयनवाली प्रिये ! तुम मेरे द्वारा किए जानेवाले किसी प्रकार के अविनय ( गड़बड़) की कुछ भी शङ्का मत करो। 1 अत्र-'शकुन्तला-मुञ्च तावन्मां, भूयोऽपि सखी जनमनुमानयिष्ये / राजा-भवतु, मोक्ष्यामि / शकुन्तला-कदा ? | राजा-'अपरिक्षतकोमलस्य यावत्कुसुमस्येव नवस्य षट्पदेन / अधरस्य पिपासता मया ते सदयं सुन्दरि ! गृह्यते रसोऽस्य' / (-इति मुखमस्याः समुन्नमयितुमिच्छति / शकुन्तला—'परिहरति नाट्येन' )।-इति पा० /