________________ - 424 अभिज्ञानशाकुन्तलम्- [षष्ठोशाखालम्बितवल्कलस्य च तरोर्निर्मातुमिच्छाम्यधः शृङ्गे कृष्णमृगस्य वामनयनं कण्डूयमानां मृगीम् // 20 // विषकः--(स्वगतं-) जधा मन्तेदि तधा तक्केमि पूरिदवं अणेण चित्तफलों आकिदिहिं लम्बकुच्चाणं वक्कलपरिहाणाणं तावसाणं त्ति / (स्वगतं-) यथा मन्त्रयते तथा तकयामि, 'पूरयितव्यमनेन चित्रफलकमाकृतिभिर्लम्बकूर्चानां, वल्कलपरिधानानां, तापसाना मिति ]i निषण्णहरिणाः = सुखोपविष्टहरिणयूथाः / 'निषण्णचमरा' इति पाठेऽपि स एवार्थः / चमरो हि मृगभेदः। गौरीगुरोः = हिमालयस्य / पावनाः = पवित्राः / पादाः = प्रत्यन्तपर्वतभागाः / 'कार्या' इति शेषः / च = किञ्च / शाखासु लम्बितानि वल्कलानि यस्य, तस्य = आतपशोषणाय शाखाप्रसारितवल्कलस्य / तरोः- वृक्षस्य कस्यचित् , अधः, कृष्णमृगस्य शृङ्गे स्वं वामनयनं कण्डूयमानां-मृगी = हरिणी,निर्मातुं = चित्रे लेखितुम् / इच्छामि = वाञ्छामि / हिमालयप्रान्तवाहिन्या मालिन्यास्तटपरिसरे, सैकतप्रदेशलीनहंसयुगलसनाथे, आश्रमाभोगतरुतलनिलीनकृष्णसारस्य शृङ्गकोणे स्ववामनयनं कण्डूयमानां हरिणीं लेखितुमिच्छामीति भावः / निपुणतरमुद्दीपनविभावोऽत्र महाकविनोपक्षिप्तः / [स्वभावोक्तिः। अनुप्रासः / उदात्तम् / शार्दूलविक्रीडितं वृत्तम् ] // 20 // __ मन्त्रयते, मन्त्रयति वा = कथयति / लम्बकूर्चानां = प्रलम्बश्मश्रूणां / जटिलानां / वल्कलं परिधानं येषां तेषां-तापसानाम्-आकृतिभिः = प्रतिकृतिभिः। चित्रफलक -चित्रपटः / पूरयितव्यं भवेत् = संभरणीयं भवेत् / उपहासवाक्यमेतत् / एवं चमर मृगों से युक्त गौरीगुरु हिमालय पर्वत के पार्श्ववर्ती छोटे 2 पाद पर्वत भी और लिखने हैं / और जिसकी शाखाओं पर वल्कल ( भोज पत्र आदि के बने मुनियों के कपड़े ) सूख रहे हैं, ऐसे इंगुदी आदि के वृक्ष के नीचे, काले हरिण के सींग के अग्रभागसे अपने बाएँ नेत्र को खुजलाती हुई एक हरिणी भी लिखनी बाकी है // 20 // विदूषक-(मनही मन) जिस प्रकार यह कह रहा है, इससे तो मालूम होता है, यह लम्बी 2 डाढ़ी वाले, जटा तथा वल्कल धारी तपस्वियों से ही इस चित्रपट को भर देगा। 1 'मन्त्रयति'।