Book Title: Abhigyan Shakuntalam Nam Natakam
Author(s): Mahakavi Kalidas, Guruprasad Shastri
Publisher: Bhargav Pustakalay

View full book text
Previous | Next

Page 605
________________ अभिज्ञानशाकुन्तलम् / , 601 श्याल:-एसो भट्टिणा अङ्गुलीअअमुल्लसम्मिदो पसादो वि दाविदो। (-इति पुरुषाय स्वयं प्रयच्छति ) / [ एष भाऽङ्गुलीयकमूल्यसंमितः प्रसादोऽपि दापितः] / पुरुषः-( सप्रणामं प्रतिगृह्य-) भट्टा ! अणुग्गहीदह्मि / [ भतः ! अनुगृहीतोऽस्मि ] / सूचकः-एशे णाम अनुग्गहे, जे शूलादो अवदालिअ हस्थिक्कन्धे पडिट्ठाविदे / [एष नामानुग्रहो, यच्छूलाढवतार्य हस्तिस्कन्धे प्रतिष्ठापितः!] / जानुकः-आवृत्त ! पलिदोशं कहेहि / तेण अङ्गुलीभएण भट्टिणो शम्मदेण होदवं। [ आवृत्त ! परितोषं कथय / तेनाऽङ्गुलीयकेन भतः संमतेन भवितव्यम् / श्याल:-ण तस्सि महारुहं रदणं भट्टिणो बहुमदं त्ति तक्केमि / तस्स दंसणेन भट्टिणो अभिमदो जगो सुमराविदो। मुहुत्तअं पकिदिगभोरो वि पजुस्सुअणअणो आसि। [न तस्मिन्महार्ह रत्नं भर्तबहुमतमिति तर्कयामि / तस्य दर्शनेन भतरभिमतो जनः स्मारितः / मुहूर्त प्रकृतिगम्भीरोऽपि पर्युत्सुकनयन आसीत् ] / सूचकः-शेविदं णाम आवुत्तेण / [ सेवितं नामाऽऽवुत्तेन ] / जानुकः–णं भणाहि'--इमश कए मच्छिआभत्तुणोत्ति / (-इति पुरुषमसूमया पश्यति ) / [ननु भण-अत्य कृते मात्स्यिकभतुरिति ] / पुरुषः-भट्टालक ! इदो अद्धं तुह्माणं शुभणोमुल्लं होदु / [ भट्टारक ! इतोऽर्द्ध युष्माकं सुमनोमूल्यं भवतु ] / जानुकः-एत्तके जुजइ / [एतावद्युज्यते / श्याल:-धीवर, महत्तरो तुम पिअवअस्सओ दाणिं मे संयुत्तो। कादम्बरीसक्खिअं अह्माणं पढमसोहिदं इच्छीअदि / ता सोण्डिआपणं एव्व गच्छामो। [धीवर / महत्तरस्त्वं प्रियवयस्यक इदानी मे संवृत्तः। कादम्बरीसखित्वमस्माकं प्रथमशोभितमिष्यते / तच्छौण्डिकाऽऽपणमेव गच्छामः ] / ( इति निष्क्रान्ताः सव)। प्रवेशकः। - .

Loading...

Page Navigation
1 ... 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640