________________ ऽङ्कः] अभिनवराजलक्ष्मी-भाषाटीका-विराजितम् 303 राजा-अहो ! रागपरिवाहिणी गीतिः ! / भवान् , कमले या वसतिस्तयैव केवलया निर्वृतः = कमलोदरनिवासमात्रेणैवात्माने धन्यं मन्यमानः / न तु तत्र मधुमधुरसास्वादवा पीति, कथं स्वस्वभावमपि त्वं पर्यत्यजः-इति 'मधुकरे'ति साभिप्रायविशेषणेन लभ्यते / एनां = पूर्वमनुभूतां मधुरमधुरसाविलां चूतमञ्जरीम् / मामिति यावत् / कथं विस्मृतोऽसि 1 / मां नवयौवनोद्भेदकाले एव तथा समुपभुज्येदानीं सर्वथा त्वदुपभोगयोग्याया मम कथं न स्मरसीति हंसवत्या उपालम्भो बोध्यः / 'कमलवसतिः-कमलानाम्नी काचन राज्ञो भोगिनी, वसुमती वा / तन्मात्रनिवृतः = तदासक्तो मां कथं विस्मृतवानसी'ति च गूढ उपालम्भः। अनेन शकुन्तलाविषयकोऽपि व्यवहारः-'तां शकुन्तलां तथोपभुज्येदानीं राजलक्ष्मीसुखितस्तस्याः कथं न स्मरसी'ति-गम्यते / 'मधुव्रते मधुकरः, कामुकेऽपीति विश्वः / [ 'रहस्यार्थस्य तूझेदः क्षिप्तिः स्या'दित्युक्तेः क्षिप्तिर्गर्भाङ्गम् / राज्ञः शकुन्तलाविस्मरणस्य प्रस्तुतस्य गम्यत्वात् -'गर्भबीजसमुद्भेदादाक्षेपः परिकीर्ततः' इति धनिकोक्राक्षेपनामकं गर्भसन्ध्यङ्गमिति केचित् / ___ तृतीयं च पताकास्थानकमेतत्-'अर्थोपक्षेपकं यत्तु लीनं सविनयं भवेत् / श्लिष्टप्रत्युत्तरोपेतं तृतीयमिदमुच्यते' इति राघवभट्टाः / केचित्प्रथमं पताकास्थान कमेतदित्याहुः / प्रच्छेदकाख्यं च लास्याङ्गम्-'अन्यासक्तं पतिं मत्वा प्रेमविच्छेदमन्युना। वीणापुरस्सरं गानं स्त्रियाः प्रच्छेदको मतः' इति विश्वनाथोक्तेः / काव्यलिङ्गानुप्रासौ / 'अपरवक्त्रं च वृत्तम्' ] // 8 // . (गर्ग = षड्जादिरागम्-) अनुरागं च परिवहति तच्छीला-रागपरिवाहिणी = लोभी हो। आपने आम्र की नई मञ्जरीका (मेरा) नई जवानी में ही इस प्रकार (खूब) प्रेम से रस-कस का उपभोग करके, उसके (मेरे) आनन्द का इस प्रकार उपभोग करके, अब कमल को पाकर ( दूसरी नई नवेली= कमला नामक या किसी दूसरी नोरस नायिका को पाकर ) उसके रूप पर ही मस्त होकर, आनन्द में विभोर होकर, इस सुरस आम्र की मञ्जरी को (मुझको) अब कैसे भूल गए हो ? / हे भंवरजी ! कभी तो इसकी भी (मेरी भी) कुछ सुध लिया करो! // 8 // राजा-अहा ! राग-रागिनियों से युक्त ( तथा अनुराग से भरी हुई ) यह कैसी मधुर गीति ( गान ) है ! /