________________ ऽङ्कः] अभिनवराजलक्ष्मी-भाषाटीका-विराजितम् 387 दाक्षिण्येन ददाति वाचमुचितामन्तःपुरेभ्यो यदा, __गोत्रेषु स्खलितस्तदा भवति च ब्रीडाविलक्षश्चिरम्॥ 5 // द्रष्टमपि नेच्छति, तस्य ततो दुःखाऽनुभवात् / दुःखिते च मनसि सर्वमसह्यं भवतीति प्रसिद्धिः / एतेनोद्वेगाख्या कामावस्था सूचिता / किञ्च-पुरा यथा = पूर्ववत् / प्रकृतिभिः = अमात्यपौरश्रेण्यादिभिः / 'स्वाम्यमात्यसुहृत्कोशराष्ट्रदुर्गबलानि च / राज्याङ्गानि प्रकृतयः, पौराणां श्रेणयोऽपि चेत्यमरः। प्रत्यहं = प्रतिदिनं / न सेव्यते = नाऽन्वास्यते / राजदर्शनस्य दुर्लभत्वात् / चित्तस्य पारवश्याप्रकृतिभिर्मन्त्रणादिकं राजकार्य राजा न यथावदनुतिष्ठतीति भावः। किञ्चउन्निद्रः = अरत्या निद्राशून्यः सन् | अत एव शय्यायाः प्रान्तेषु, विवर्त्तनैः = शयनीयपर्यन्तभागलोठन-पार्श्वपरिवर्तनादिभिः / क्षपाः = रात्रीः / विगमयति = अतिवाहयति / न तु-अन्तःपुरगतविदग्धकामिनीसुरतसेवनादिभिरिति-सन्तापोऽनेन सूचितः। किञ्च-अन्तःपुरेभ्यः= अवरोधललनाभ्यः। आकारगोपनार्थ-दाक्षिण्येन = चातुर्येण / उचितां = तत्तत्कालयोग्यां / वाचं = वचनं / प्रत्युत्तरं / ददाति = प्रयच्छति / अन्यासक्तमना अपि दाक्षिण्येन स्वाकारं निह्नवानोऽन्तःपुरकान्ताभ्यो वाचमुचितामेव प्रयच्छति / परं यदा गोत्रेषु = नामसु / 'गोत्रं तु नाम्नि चे'त्यमरः / स्खलितः = विपर्यस्तः / वदा-वसुमतीनामोच्चारणावसरे, शकुन्तलानामोच्चारयति / तदा चिरं ब्रीडाविलक्षः = लजया विस्मयान्वितो भवति / 'विलक्षो विस्मयान्वितः इत्यमरः। गूढस्य स्वाशयस्य शकुन्तलागतस्य प्रकाशनादपत्रपान्वितो भवतीत्याशयः / 'डाविनम्रः' इति पाठान्तरम् | उन्मादाख्या कामाऽवस्थाऽनेन सूचिता / भी अच्छी वस्तु उन्हें अच्छी ही नहीं लगती है। और प्रतिदिन मन्त्री, सेठ, साहकार, प्रजा आदि से भी पहिले की तरह अब नहीं मिलते हैं। केवल पलङ्ग पर पड़े 2, करवट बदलते ही बदलते, जागकर सारी रात बिताते हैं। और महल की अपनी पुरानी रानियों को, बड़ी कुशलता व सावधानी से अन्यमनस्क होते हुए भी वे उचित उत्तर तो देते हैं, परन्तु जब कभी भूल से उनसे बात करते समय इनके मुख से शकुन्तला का नाम निकल जाता है, तब अपनी भूल पर लजित हो जाते हैं / अर्थात्-वे शकुन्तला में ही तल्लीन हो रहे 1 व्रीडाविनम्नश्चिरम्' पा०।