________________ 390 अभिज्ञानशाकुन्तलम्- [षष्ठोप्रत्यादिष्टविशेषमण्डनविधि,मप्रकोष्ठे श्लथं बिभ्रत्काञ्चनमेकमेव वलयं, श्वासोपरक्ताऽधरः / चिन्ताजागरणप्रताम्रनयनस्तेजोगुणैरात्मनः संस्कारोल्लिखितो महामणिरिव क्षीणोऽपि नाऽऽलक्ष्यते॥६॥ प्रत्यादिष्टेति / प्रत्यादिष्टो विशेषस्य मण्डनस्य विधियेनासौ, तथा = निरस्तविशेषप्रसाधनविधिः / त्यक्तालङ्कारविशेष इति यावत् / वामश्चासौ प्रकोष्ठश्च, तस्मिन्-वामप्रकोष्ठे = सव्यकूपरमणिबन्धमध्ये / श्लथं = कार्याद्विलथं / काञ्चनं = कनकमयम् / एकमेव = एकमेव केवलं / वलयं = हस्त कटकं / बिभ्रत् = दधत् / धारयन् सन् / वामहस्ते च पुंस: कटकधारणस्य व्यवहारविरुद्धतया तथाचरणादुन्मादावस्था राज्ञः सूचिता / श्वासेनोपरक्तः अधरो यस्यासौश्वासोपरक्ताधरः= उष्णोष्णदीर्घश्वासपाटलिताधरोष्ठः। चिन्तया यजागरणं तेन, प्रकर्षण ताने नयने यस्यासौ-चिन्ताजागरणप्रताम्रनयनः = शकुन्तलाविषयकचिन्ताकृतजागरणरक्तलोचनः / 'तान्तेति पाठे-ग्लानेत्यर्थः / एषः = दुष्यन्तः। क्षीणोऽपि = कृशोऽपि सन् / आत्मनः = स्वस्य-तेजोगुणैः = सहजशरीरप्रभाजालैः / प्रभावः। संस्कारायोल्लिखितः-संस्कारोल्लिखितः=शाणोल्लीढः / महामणिरिव = महार्हरत्नमिव / न आलक्ष्यते = कृशतया ज्ञातुं न शक्यते / प्रभाविद्योतितदिगन्त यद्यपि इन्होंने-विशेषरूप से नानाविध हार, कुण्डल आदि आभूषणों का धारण करना, एवं अपना शृङ्गार आदि करना बन्द कर दिया है, और इन्होंने इस समय केवल बाएँ हाथ में सोने का ढीला-सा केवल एक ही कड़ा पहिन रखा है, और बारबार दीर्घ व ऊर्ध्व श्वास लेने से ओठ भी इनके लाल हो गए हैं और चिन्ता से तथा रात 2 भर जागते रहने से इनके नेत्र भी लाल हो रहे हैं, और ये बहुत दुर्बल भी हो गए हैं, तथापि इस प्रकार क्षीण होने पर भी, अपने विशेष तेज रूप गुण से ही, पालिस के लिए तराशे ( काटे ) गये तेजोयुक्त महामणि ( बदिया हीरे ) की तरह ही-ये क्षीण बिलकुल मालूम नहीं 1 'प्रतान्तनयनः' पा०।