________________ 312 अभिज्ञानशाकुन्तलम् [पञ्चमकञ्चकी-इतं इतो भवन्तः ! / शाङ्गरवः- सखे ! शारद्वत !महाभागः कामं नरपतिरभिन्नस्थितिरसौ, न कश्चिद्वर्णानामपथमपकृष्टोऽपि भजते / तथापीदं शश्वत्परिचितविविक्तेन मनसा, जनाऽऽकीर्ण मन्ये हुतवहपरीतं गृहमिव ! // 11 // महाभाग इति / यद्यपि-अभिन्ना स्थितियेनासौ-अभिन्नस्थितिः = धर्ममर्यादारक्षकः / असौ-नरपतिः = अयं महाराजो दुष्यन्तः / कामं = प्रकामं / नितराम् / यथेष्टं / सत्यं / महाभागः = महानुभावः / विञ्च-यद्यपि एतद्राज्ये खलु- वर्णानां = ब्राह्मणादीनां चतुर्णा वर्णानां मध्ये / अपकृष्टोऽपि = नीचोऽपि / शूद्रादिरपि वर्णः / पञ्चमोऽसच्छूद्रादिरपि वा कश्चित् / अपथं = कुमार्ग। धर्ममर्यादोलखन तावत् / न भनते = नैव सेवते / पाठान्तरे-अहो-इत्याश्चर्थे / तथापि = किन्तु / शश्वत् परिचितं विविक्तं येन, तेन-शश्वपरिचितविविक्तेन = निरन्तरेकान्तवासप्रवणेन / मनसा = चित्तेन-उपलक्षितोऽहं / जनैराकीर्ण-जनाकीर्णम् = लोकसङ्कुलम् / जनसम्बाधम् / इदं = राजगृहं / हुतवहेन परीतं = पावकज्वालाक्रान्तं / गृहमिव = निकेतनमिव। परित्यागार्हमेव / मन्ये - तर्कयामि / अस्मादुद्वेगं कञ्चकी-आप लोग इधर से पधारिये, इधर से / शङ्गिरव-सख्खे शारद्वत! यद्यपि यह महानुभाव राजा दुष्यन्त बड़ी तत्परता से धर्म की मर्यादा पालने वाला, एवं प्रजा की पिता के तरह से रक्षा करने वाला है, और यहाँ कोई भी-वर्णों (ब्राह्मण, क्षत्रिय, वैश्य, शूद्र-इन चार वर्णों ) में जो नीच भी जन है, वे भी (चाण्डाल भी)-कुमार्ग का सेवन करने वाले नहीं हैं, किन्तु यहाँ की सभी प्रजा धर्ममर्यादा, लोक मर्यादा से ही चलने वाली है, तथापि मुझे तो सदा से एकान्त सेवन करने का ही अभ्यास रहने से, यह 1 'रभिन्नस्थितिरहो' पा० /